वाचस्पत्यम्
भूताली || स्त्री० भूतानीव अलति पर्य्याप्नोति अल—अच् गौरा० ङीष् । १ भूमिपाटलौ, २ मूषल्याञ्च राजनि० ।
शब्दकल्पद्रुमः
भूताली || स्त्री (भूतानामालीव) भूपाटली । मुषली । इति राजनिर्घण्टः ॥