वाचस्पत्यम्
भूतावास || पु० भूतानां प्राणिनामावासः अधिष्ठानत्वात् । १ विष्णौ, “भूतावासो वासुदेवः” विष्णु स० । “बसन्ति त्वयि भूतानि भूतावासस्ततो हरिः” हरिवं० ६ त० । २ विभीतक- वृक्षे राजनि० ।
शब्दकल्पद्रुमः
भूतावासः || पुं, (भूतानामावासः)
विभीतकवृक्षः । इति राजनिर्घण्टः ॥ विष्णुः । यथा, —
“भूतावासो वासुदेवः सर्व्वासुनिलयो लयः ॥” इति महाभारते दानधर्म्मः ॥ (शरीरम् । यथा, मनुसंहितायाम् । ६ । ७७ । “जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥” शाखोटः । तत्पर्य्यायो यथा, —
“शाखोटः पीतकनको भूतावासः खरच्छदः ॥” इति भावप्रकाशस्य पूर्ब्बेखण्डे प्रथमे भागे ॥)