वाचस्पत्यम्
भूताविष्ट || त्रि० भूतेनाविष्टः । पिशाचग्रस्ते “भूताविष्टेषु पञ्चाशत् मृतापत्यासु वै शतम्” ज्यो० त० ।
शब्दकल्पद्रुमः
भूताविष्टः || त्रि (भूतेन आविष्टः ।)
भूतक्रान्तः । भूतादिना रोगग्रस्तः । (यथा, —
“भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् ।” इत्यादि ज्योतिस्तत्त्वम् ॥ भूतविशेषाणामावेश- समयाः । यथा, —
“देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि । गन्धर्व्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ॥ कृष्णपक्षे च पितरः पञ्चम्यामपि चोरगाः । रक्षांसि निशि पैशाचाश्चतुर्द्दश्यां विशन्ति च ॥ दर्पणादीन् यथाच्छाया शीतोष्णं प्राणिनो यथा । स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहभृत् ॥ विशन्ति च न दृश्यन्ते ग्रहस्तद्वच्छरीरिणम् ।” इति सुश्रुते उत्तरतन्त्रे षष्टितमेऽध्याये ॥)
शब्दकल्पद्रुमः
भूताविष्टः || त्रि (भूतेन आविष्टः)
पिशाचग्रस्तः । तन्नाशकचक्रम् यथा, —
“पञ्चरेखाः समुल्लिख्य तिर्य्यगूर्द्धक्रमेण हि । पदानि षड्दशापाद्य त्वेकमाद्ये मुनौ त्रयम् ॥ नवमे सप्त दद्यात्तु बाणं पञ्चदशे तथा । द्वितीयेऽष्टावष्ठमे षट् दिशि द्बौ षौडशे श्रुतिः ॥ एकादिना समं ज्ञेयमिच्छाङ्कार्द्धं त्रिकोणके । तदा द्वात्रिंशदादिः स्याच्चतुष्कोष्ठेषु सर्व्वतः ॥ दर्शनाद्धारणात्तासां शुभं स्यादेषु कर्म्मसु । द्वात्रिंशत् प्रसवे नार्य्याश्चतुस्त्रिंशद्गमे नृणाम् ॥ भूताविष्टेषु पञ्चाशन्मृतापत्यासु वै शतम् । द्वासप्ततिस्तु बन्ध्यायां चतुःषष्टी रणाध्वनि ॥ विषे विंशो धान्यकीटेष्वष्टाविंशतिरेव च । चतुरष्टौ च बालानां रोदने परिकीर्त्तिताः ॥” इति ज्योतिस्तत्त्वम् ॥ १ ८ १८ २३ २० २१ ३ ६ ७ २ २४ १७ २२ १९ ५ ४ ५० ५० ५० ५०