वाचस्पत्यम्
भूति || स्त्री भू—क्तित् । १ भवने २ अणिमाद्यष्टविधैश्वर्य्ये ३ शिवाङ्ग स्थभस्मनि ४ गजवेशे च भेदि० ५ भूतृणे ६ सम्पत्तौ ७ जात्यां विश्वः ८ वृद्धिनामौषधे च राजनि० ।
शब्दकल्पद्रुमः
भूतिः || स्त्री (भवत्यनयेति । भू + “क्तिच्क्तौ च संज्ञायाम् ।” ३ । ३ । १७४ । इति क्तिच् ।)
महादेवस्य अणिमाद्यष्टप्रकारवैभवम् । इत्य- मरः । १ । १ । ३८ ॥ शम्भुधृतभस्म । इत्यमर- टीकायां भरतः ॥ भस्म ॥ (यथा, शिशुपाल- वधे । १ । ४ । “क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ॥”)
सम्पत्तिः । (उत्तरोत्तरवृद्धिः । यथा, भगवद्- गीतायाम् । १८ । ७४ । “यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्द्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥”)
हस्तिशृङ्गारः । इति मेदिनी ते, ४० ॥ (हस्ति- शृङ्गारोऽत्र गजमण्डनम् । यथा, मेघदूते । १९ । “रेवां द्रक्ष्यस्यपलविषमे बिन्ध्यपादे विशीर्णाम् । भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥”)
जातिः । इति विश्वः ॥ (पितृगणभेदः । यथा, मार्कण्डेयपुराणे । ९६ । ४३ । “विश्वो विश्वभुगाराध्यो धर्म्मो धन्यः शुभाननः । भूतिदो भूतिकृद् भूतिः पितॄणां ये गणा नव ॥” लक्ष्मीः । यथा, भागवते । ४ । १ । ४ । “यस्तयोः पुरुषः साक्षाद् विष्णुर्यज्ञस्वरूपधृक् । या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥” भूतेर्लक्ष्म्याः । इति तट्टीकायां श्रीधरस्वामी ॥)
वृद्धिनामौषधम् । रोहिषतृणम् । भूतृणम् । इति राजनिर्घण्टः ॥ (भवनमिति । भू + क्तिन्)
उत्पत्तिः । सत्ता । इति भूघातोर्भावे क्तिप्रत्य- वेन निष्पन्नम् ॥