शब्दकल्पद्रुमः
भूतीकं || क्ली (भूतिक । पृषोदरात् साधुः ।)
भूनिम्बः । यमानी । भूस्तृणम् । कत्तृणम् । इति मेदिनी । के, १३५ ॥ (यथा, सुश्रुते उत्तर- तन्त्रे । ३९ अध्याये । “वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् ॥” यथा च भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे । “कत्तृणं रोहिषं देवजग्धं सौगन्धिकन्तथा । भूतीकं ध्यामपौरञ्च श्यामकं धूमगन्धिकम् ॥”)