वाचस्पत्यम्
भूतेश || ६ त० । १ प्रथमाधीशे २ परमेश्वरे च भूतेश्वरादयोऽप्यत्र ।
शब्दकल्पद्रुमः
भूतेशः || पुं, (भूतानां प्राण्यादीनां प्रमथादीनां बालग्रहाणाञ्च ईशः ।)
शिवः । इत्यमरः । १ । १ । ३३ ॥ (यथा, राजतरङ्गिण्याम् । १ । १०७ । “म्लेच्छैः सञ्छादिते देशे स तदुच्छित्तये नृपः । तपः सन्तोषिताल्लेभे भूतेशात् सुकृती सुतम् ॥”)