संस्कृत-शब्दकोशः

भूनेतृ भूपति

भूप

वाचस्पत्यम्

भूप ||‍ पु० भुवं पाति पा क । भूमिपाले अमरः भूमिपादयोप्यत्र ।


शब्दकल्पद्रुमः

भूपः || पुं, (भुवं पाति रक्षतीति । पा + “आतो- ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
राजा । इत्यमरः । २ । ८ । १ ॥ अर्थलोभेन प्रजादण्डकरणे तस्य पापं यथा । “अर्थलोभेन यो भूपः प्रजादण्डं करोति च । वृश्चिकानाञ्च कुण्डे स तल्लोमाब्दं वसेद्ध्रुवम् ॥ ततो वृश्चिकजातिश्च सप्तजन्मसु भारते । ततो नरश्चाङ्गहीनो व्याधी शुद्धो भवेन्नरः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥



Correction: