वाचस्पत्यम्
भूपरिधि || पु० ६ त० । भूमेः परिधौ तन्मानं सू० सि० उक्तं यथा “योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु । तद्वर्गतो दशगुणात् पदं भूपरिधिर्भवेत्” “लम्बज्याघ्नस्त्रि जीवाप्तः स्फुटो भूपरिधिः” । सि० शि० सूक्ष्मतया- न्थथोक्तं यथा “प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्ग नागाब्धव ४९६७ स्तद्व्यासः कुभुजङ्गशायकभुवः सिद्धां- शकेनाधिकः १५८१ । १०२ । पृष्ठक्षेत्रफलं तथा युग- गुणत्रिंशच्छराष्टाद्रयो ७८५३०३४ भूमेः कन्दुकजालवत् कुपरिधिप्यासाहतेः प्रस्फुटम्” ।