वाचस्पत्यम्
भूपाल || पु० भुवं पालयति पाल—अण् उप० स० । भूपतौ शब्दमा०
शब्दकल्पद्रुमः
भूपालः || पुं, (भुवं पालयतीति । पालि रक्षणे + “कर्म्मण्यण् । ३ । २ । १ । इत्यण् ।)
राजा । इति शब्दमाला ॥ (यथा, मार्कण्डेये । १८ । ३ । “यदर्थं गृह्यते शुल्कं तदनिंष्पादयन् वृथा । पण्यानां द्वादशं भागं भूपालाय बणिग्जनः ॥” सोमपालस्य पुत्त्रः । यथा, राजतरङ्गिण्याम् । ८ । ३४९५ । “सोमपालात्मजो भूभृद् भूपालः प्राकृत- स्तथा ॥”)