संस्कृत-शब्दकोशः

भूबदरी भूभर्तृ

भूबल

वाचस्पत्यम्

भूबल ||‍ न० नरपतिजयचर्य्योक्ते जयसाधनोपाये बलभेदे “स्वरोदयैश्च चक्रैश्च शत्रुर्यत्र समीऽधिकः । तत्र युद्धे बलं ज्ञेयं भूपलानां जयार्थिनाम् । तेषां नामानि वक्ष्ये- ऽहं ख्यातानि ब्रह्मयामले । चतुरशीतिसंख्यानां यद्- बलेन जयी रणे । उड्री जालन्धरी पूर्णा कामा कोल्लै कवीरिका । शिलीन्ध्रा च महामारी क्षेत्रपाली च यंशजा । रुद्रकालानलं प्रोक्तं कालरेखा निरा- मया । जयलक्ष्मीर्महालक्ष्मीर्जया विजयभैरवी । बाला योगेश्वरी चण्डी व्योमाम्बुभूककर्त्तरी । शार्दूली सिंहली तन्वी महामाया महेश्वरी । देवकोटी शिवा शक्तिर्घृष्टा माला वराटिका । त्रिमुण्डा मत्सरी धर्मा मृता वृष्टाक्षयाऽक्षया । दुर्मती प्रवरा गौरी कासी नरहरी स्मृता । खेचरी भूचरी गुह्या द्वादशी विष्टि केवला । त्रैलोक्यविजया काली कराला यडवा परा । रौद्री च शिशुमातङ्गी अभेद्या दहनी जिता । बहुला वर्गभूमिश्च कापाली त्वनिलानला । चन्द्रार्कविम्बभूमी च ग्रहभूराशिलग्नगा । राहुकाकानकी भूमिः स्वर भूमिर्द्विधा मता । रुद्रत्रिकालिकाञ्चैव राहुकाष्टविध- स्तथा । चन्द्रः सप्तविधः सूर्य्यचतुर्धा योगिनी त्रिधा । कालवेला त्रिभेदा च तिधिनक्षत्रवारगा । इमानि भूवलान्यत्र ज्ञात्वा यः प्रविशत् रक्षे । करयस्तस्य नश्यन्ति मेघा वातहता यथा । सममात्राधिके प्रान्नि स्वरैश्चक्रैश्च भूबलैः । स्यानसैन्याधिके शत्रौ बणविज्ञान- संयुते” । एतल्लक्षणानि तत्र दृश्यानि ।



Correction: