संस्कृत-शब्दकोशः

भूभुज् भूमण्डल

भूभृत्

वाचस्पत्यम्

भूभृत् ||‍ पु० भुवं बिभर्त्ति धारयति, पालयति वा भृ क्विप् । १ पर्वते २ भूपाले च मेदि० ।


शब्दकल्पद्रुमः

भूभृत् || पुं, (भुवं बिभर्त्तीति । भृ + क्विप् । “ह्रस्वस्य पितिकृति तुक् । ६ । १ । ७१ । इति तुगा- गमश्च ।)
राजा । (यथा, रघौ । ११ । ८१ । “तेन भूमिनिहितैककोटि तत् कार्म्मुकञ्च बलिनाधिरोपितम् । निष्प्रभश्च रिपुरास भूभृताम् धूमशेष इव धूमकेतनः ॥”)
पर्व्वतः । इति मेदिनी । ते, १४० ॥ (यथा, कुमारसम्भवे । ६ । १ । “अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥”)



Correction: