संस्कृत-शब्दकोशः

भूमण्डल भूमय

भूमन्

वाचस्पत्यम्

भूमन् ||‍ पु० बहोर्भावः बहु + इमनिच् “बहोर्लोपो भूश्च बहोः” इलोपे भ्वादेशः । १ बहुत्वे अतिशये स्वार्थे इमनिण् प्राप्यत् २ अतिशयबह्वत्वयुते च । “यो वै भूमा तत्मुखं {??} भूमैव सुखं भूमा त्वेव {??}- तव्यः । भूमानं भगवो विजिज्ञासे” छा० उ० । “यो वै भूमा महत् निरतिशयम् बहुरितिपर्य्यायास्तत् सुखं ततोऽर्वाक् सातिशयत्वादल्पम् । अतस्तद्भिन्नेऽक्ष्पे सुखं नास्ति अल्पानां तृष्णाहेतुत्वात् तृष्णा च दुःखवी जम् । न हि दुःखवीजं ज्वरादि सुख दृष्टं लोके । तस्माद्युक्तं नाल्पे सुखमस्तीति । अतो भूमैव सुखम् तृष्णादिदुःखवीजत्वासम्भवाद्भूम्नः” भाष्यम् तस्मिन् प्रपाठके च यणात् या भूमा तन्निरूपितं दृश्यम् ।


शब्दकल्पद्रुमः

भूमा || [न्] पुं, बहुत्वम् । यथा । “भूयोभूम- भूयिष्ठाः ।” बहोरीयस्विमन् इष्ठान्तस्य एते निपात्यन्ते । इति मुग्धबोधव्याकरणम् ॥ ईय- सोर्यस् ईयस्वादौ बहोर्भूरादेशः । ईयस्विन्नो- रादिलोपः । इष्ठे यकारागमश्च निपात्यन्ते । अतिशयेन बहुः भूयान् । बहोर्भावः भूमा । अतिशयेन बहुः भूयिष्ठः । इति तट्टीकायां दुर्गादासः ॥ बहुत्वविशिष्टः । तत्र वाच्यलिङ्गः । यथा । भूयः भूम । इति प्रभूतशब्दपर्य्याये अमरटीकायां रमानाथः ॥ * ॥
विराट्पुरुषः । यथा । “यत्र नान्यत् पश्यति नान्यत् शृणोति नान्यद्विजानाति स भूमा यो भूमा तदमृतम् ।” इत्यादि श्रुतिभ्यो ब्रह्मनित्यत्वं सत्त्वशुद्धस्य प्रति- भाति । इति वेदान्तसारटीका ॥



Correction: