वाचस्पत्यम्
भूमिकम्प || पु० ६ त० । क्षितिचलने तत्कारणादिकं स फलविशेषं वृ० स० ३२ अ० उक्तं यथा “क्षितिकम्पमाहुरेके वृहदन्तर्जलनिवासिसत्त्वकृतम् । भू- भारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये । अनिलो- ऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्येके । केचि- त्त्वदृष्टकारितमिदमन्ये प्राहुराचार्य्याः । गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पतद्भिश्च । आकम्पिता पितामहमाहामरसदसि सव्रीडम् । भगवन्नाम ममैत० त्त्वया कृतं यदचलेति तन्न तथा । क्रियतेऽचलैश्चलद्भिः शक्ताह नास्य खेदस्य । तस्याः सगद्गदगिरं किञ्चित् स्फुरिताधरं विनतमीषत् । साश्रुविलोचननमवलोक्य पितामहः प्राह । मन्युं हरेन्द्र! घात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय । शक्रः कृतमित्युक्त्वा मा भैरिति वसुमतीमाह । किन्त्वनिलदहनसुरपतिवरुणाः सदसत्- फलावबोधार्थम् । प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पविष्यन्ति । चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरो ऽश्वयुक् चेति । मण्डलमेतद्वायव्यमस्य रूपाणि सप्ता हात् । धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम् । विरुजन् द्रुमांश्च विचरति रविरपटुकरावभासी च । वायव्ये मकम्पे सस्याम्बुवनौषधीक्षयोऽभिहितः । श्वयथुश्वासोम्मादज्घरकासभवा वणिक्पीडा । रूपायुध- भृद्वैद्याः स्त्रीकविगान्धर्वपण्यशिल्पिजनाः । पीड्यन्ते सौराष्ट्रककुरुमगधदशार्णमत्स्याश्च । पुष्याग्नेषविशाखा- भरणीपित्र्याजभाग्यसञ्ज्ञानि । वर्गो हौतभुजोऽयं करोति रूपाण्यथैतानि । तारोल्कापातावृतमादीप्त- मिवाम्वरं सदिग्दाहम् । विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः । आग्नेयेऽम्बुदनाशः सलिला- शयसङ्क्षयो नृपतितैरम् । दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डरोगश्च । दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्म० काङ्गबाह्लीकाः । तङ्गणकलिङ्गवङ्गद्रविडाः शवराश्च नैकविधाः । अभिजिच्छ्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमै- त्राणि । सुरपथमण्डलमेतद्भवन्ति चास्य स्वरूपाणि । चलिताचलवर्ष्माणो गम्भीरविराविणस्तडित्वन्तः । गव- चलिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः । ऐन्द्रं श्रुतिकुलजातिख्यातावनिपालगणपविध्वंसि । अ- तिसारगलग्रहवदनरोगकृच्छर्दिकोपाय । काशियुगन्धर- पौरवकिरातकीराभिसारबलभद्राः । अर्बुदसुबास्तुमा- लबपीडाकरमिष्टवृष्टिकरम् । पौष्णाप्यार्द्राश्लेषामूलाहि- र्बुध्न्यवरुणदैवानि । मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि । नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो वहुलाः । तडिदुद्भासितदेहा धाराङ्कुशबर्षिखो ज- लदाः । वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगत- वैरम् । गीनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति । षड्भिर्मासैः कम्पो द्वाम्यां पाकञ्च याति मिर्धातः । अन्यानप्युत्पातान् जगुरन्ये मण्डलैरेतैः । उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः । वातो ऽतिचण्डो ग्रहणं रवीत्द्वोर्नक्षत्रतारागणवैकृतानि । व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनग्नेर्विस्फुलिङ्गार्चिषो बा । वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा । सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्य्यनादाः । अन्यच्च यत् स्यात् प्रकृतेः प्रतीपं तत्मण्डलैरेव फलं निगाद्यम् । हन्त्यैन्द्रो वायव्यं वायुश्चात्यैन्द्रमेवमन्योऽन्यम् । वारुणहीतभुजावपि वेला- नक्षत्रजाः कम्पाः । पथितनरेश्वरमरणव्यसनान्याग्नेय- वायुमण्डलयोः । क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जना- श्चापि । वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके । गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः । पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट् च सप्ताहात् । सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः । पलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम् । सलिल- पतिरशीतिसंयुतं कुलिशधरोऽभ्यधिकं च षष्टिकम् । त्रिचतुर्थसप्तमदिने मासे पक्षे तथा त्रिपक्षे च । यदि भवति भूमिकम्पः प्रधाननृपनाशनो भवति ।” भूमिचलनादयोऽप्यत्र । “निर्घाते भूमिचलने” म० त० ।