वाचस्पत्यम्
भूमिचम्पक || पु० भूमिलग्नः चम्पकः शाक० त० (भूइचांपा) वृक्ष- भेदे शब्दच० ।
शब्दकल्पद्रुमः
भूमिचम्पकः || पुं, (भूमिजातश्चम्पकः ।)
पुष्पवृक्ष- विशेषः । भूँ इचाँपा इति भाषा । तत्पर्य्यायः । ताम्रपुष्पः २ सन्धिबन्धः ३ द्रुघणः ४ । इति शब्दचन्द्रिका ॥ अस्य मूलं व्रणपाककारकम् ॥