संस्कृत-शब्दकोशः

भूमिचम्पक भूमिजगुग्गुलु

भूमिज

वाचस्पत्यम्

भूमिज ||‍ पु० भूमेर्जायते जन—ड । १ मङ्गलग्रहे २ नरकासुरे मेदि० ३ भूमिकदम्बे ४ मनुष्ये च राजनि० । ५ भूमिजात- मात्रे त्रि० । ६ सीतायां स्त्री ।


शब्दकल्पद्रुमः

भूमिजं || क्ली (भूमेर्जायते इति । जन् + डः ।)
गौरसुवर्णम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

भूमिजः || पुं, (भूमेः पृथिव्या जायते इति । जन् + डः ।)
मङ्गलग्रहः । नरकराजः । इति मेदिनी । जे, २७ ॥ भूमिकदम्बः । मनुष्यः । इति राजनिर्घण्टः ॥ (भूमिजाते, त्रि । यथा, विष्णुधर्म्मोत्तरे । “चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् ॥”)



Correction: