वाचस्पत्यम्
भूमिप || पु० भूमिं पाति पा—क । नृपे जटा० । भूमिपालादयोऽप्यत्र ।
शब्दकल्पद्रुमः
भूमिपः || पुं, (भूमिं पाति रक्षतीति । पा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
राजा । इति जटाधरः ॥ (यथा, महा- भारते । १ । १०० । ८ । “वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः । पतिं भारतगोप्तारं समपद्यन्त भूमिपाः ॥”)