संस्कृत-शब्दकोशः

भूमिपुत्र भूमिमण्ड

भूमिप्रविभाग

वाचस्पत्यम्

भूमिप्रविभाग ||‍ पु० सुश्रुतोक्ते औषधाङ्गभूमिविभागे “अथातो भूमिप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः । श्वभ्रशकराश्मविषमवल्मीकश्मशानाऽद्यतनदेवतायतनसिक- ताभिरनुपहतामनूषरामभङ्गुरामदूराद्रिकां स्निग्धां प्ररो- हवतीं मृद्वीं स्थिरां समां कृष्णां गौरीं लोहितां वा मूमिमौषधार्थं परीक्षेत तस्यां जातमपि कृमिविषशस्त्रा- तपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टं पृ- थ्वपगाढमूलसुदीच्यां चौषधमाददीतेत्यौषधभमिपरीक्षा- विशेषः सामान्यः । विशेषतस्तु । तत्राश्मवती स्थिरा गुर्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुण- भूयिष्ठा । स्निग्धा शीतलाऽऽसन्नोदका स्निग्धशस्यतृण- कोमलवृक्षप्राया शुक्लाऽम्बुगुणभूयिष्ठा । नानावर्णा लघ्व- श्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा । रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्षप्रायाऽ- ऽनिलगुणभूयिष्ठा । मृद्वी समाश्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतवृक्षप्राया श्यामा चाकाश- गुणभूयिष्ठा । तत्र केचिदाहुराचार्य्याः प्रावृट्वर्षा- शरद्धेमन्तवस न्त ग्री ष्म यथासंख्यं मूलपत्रत्वक्क्षीर- सारफलान्याददीतेति तत्तु न सम्यक् कस्मात् सौम्याग्ने- यत्वाज्जगतः । सौम्यान्यौषधानि सौम्येष्वृतुष्वाददीता- ग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि भवन्ति । सौम्यान्यौष- घानि सौम्येष्वृतृषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्निग्धशीतानि जायन्ते । एतेन शेषं व्याख्यातम् । तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुण- मूयिष्ठायां वमनद्रव्याणि । उभयगुणभूयिष्ठायामुभयती- भागानि । आकाशगुणभूयिष्ठायां संशमनान्येवं बल- वत्तराणि भवन्ति । सर्वाण्येव चाभिनवान्यन्यत्र मधु- घृतगुडपिप्पलीविडङ्गेभ्यः । सर्वाण्येव सक्षीराणि वी- र्य्यवन्ति तेषामसम्पत्तावनतिक्रान्तसंवत्सराण्याददीतेति । भवन्ति चात्र । गोपालास्तापसा व्याधा ये चान्ये वन- चारिणः । मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते । सर्वावयवसाध्येषु पलाशलवणादिषु । व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते । गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते । तस्माद्भूमिस्वभावेन वीजिनः षड्रसैर्युताः । अव्यक्तः किल तोयस्य रसो निश्चय- निश्चितः । रस एव स चाव्यक्तो भूमेरेव रसाद्भवेत् । सर्वलक्षणसम्पन्ना भूमिः साधारणी स्मृता । द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः । विगन्धेनापरामृष्ट- मविपन्नं रसादिभि । नवं द्रव्यं पुराणं वा ग्राह्यमेव विनिर्दिशेत् । विडङ्गं पिप्पली क्षौदं सर्पिश्चाप्यनवं हितम् । शेषमन्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम् । जङ्गमानां वयःस्थानां रक्तरोमनखादिकम् । क्षीरमूत्र- पुरीषाणि जीर्णाहारेषु संहरेत् । प्लोतमृद्भाण्डफलक- शङ्कुविन्यस्तभेषजम् । प्रशस्तायां दिशि शुचौ भोषजा- गारमिष्यते ।”



Correction: