शब्दकल्पद्रुमः
भूमिमण्डपभूषणा || स्त्री (भूमिमण्डपं भूषयतीति । भूषि + ल्युः + टाप् ।) माधवीलता । इति राज- निर्घण्टः ॥