वाचस्पत्यम्
भूमीरुह is an alternate of भूमिरुह. भूमि(मी)रुह || पु० भूम्या भूमौ वा रोहति रुह—क । वृक्षे महीरुहादयोऽप्यत्र ।
शब्दकल्पद्रुमः
भूमीरुहः || पुं, (भूम्यां रोहतीति । रुह + कः ।)
वृक्षः । यथा, —
“दीर्घास्तापयुता यथा विरहिणीश्वासास्तथा वासरा यामिन्यश्चपला यथा कुलबधूदृष्टिः सरोषा प्रिये ! । छाया वाञ्छ्यतमा नवोढवनितावाणीव भूमी- रुहा निष्पन्दाः सुचिराद्यथा मिलितयोर्यूनोर्मिथो दृष्टयः ॥” इत्युद्भटः श्लोकः ॥