संस्कृत-शब्दकोशः

भूम्यनन्तर भूम्यामली

भूम्यामलकी

वाचस्पत्यम्

भूम्यामलकी ||‍ स्त्री भूमिलग्ना आमलकी शाक० त० । खनाम- ख्याते क्षुपे राजनि० । “स्यात् भूम्यामलकी तिक्ता कषाया मघुरा हिमा । पिपासाकासपित्तासृक्कण्डूपाण्डुक्षय- पणुत्” भावप्र० ।


शब्दकल्पद्रुमः

भूम्यामलकी || स्त्री (भूमिलग्ना आमलकी शाक पार्थिवादित्वात् समासः)
क्षुपविशेषः । भूँइ आमला इति भाषा । तत्पर्य्यायः । बहुपुष्पी २ जडा ३ अध्यण्डा ४ तालिः ५ तामलकी ६ अजटा ७ सूक्ष्मफला ८ क्षेत्रामलकी ९ । इति रत्नमाला ॥ वितुन्नकः १० झटा ११ अमला १२ अज्झटा १३ ताली १४ शिवा १५ । इत्यमरः । २ । ४ । १२७ ॥ झाटा १६ मला १७ झाटामला १८ अमलाज्झटा १९ । इत्यमरटीकायां भरतः ॥ भूम्यामलकिका २० शिवामलकी २१ बहु- पुत्त्रा २२ बहुफला २३ बहुवीर्य्या २४ भूधात्री २५ । अस्या गुणाः । वातकारित्वम् । तिक्तत्वम् । कषायत्वम् । मधुरत्वम् । हिमत्वम् । पिपासाकासपित्तासृक्कफपाण्डुक्षतनाशित्वञ्च । इति भावप्रकाशः ॥



Correction: