वाचस्पत्यम्
भूम्यामली || स्त्री भूम्या सह आमलति सम्बध्नाति आ + मल अच् गौ० ङीष् । भूम्यामलक्याम् राजनि० ।
शब्दकल्पद्रुमः
भूम्यामली || स्त्री (भूम्या आमलते आत्मानं धारय- तीति । आ + मल् + अच् ।)
भूम्यामलकी । अरुनेली इति हिन्दी भाषा । भूँइ आमला इति वङ्गभाषा । तत्पर्य्यायः । तमाली २ ताली ३ तमालिका ४ उच्चटा ५ दृढपादी ६ वितुन्ना ७ वितुन्निका ८ भूधात्री ९ चारटी १० वृष्या ११ विषघ्नी १२ बहुपत्रिका १३ बहुवीर्य्या १४ अहिभयदा १५ विश्वपर्णी १६ हिमालया १७ अज्झटा १८ वीरा १९ । अस्या गुणाः । कषायत्वम् । अम्लत्वम् । पित्त- मेहदाहनाशित्वम् । शिशिरत्वम् । मूत्र- रोधार्त्तिशमनत्वञ्च । इति राजनिर्घण्टः ॥