वाचस्पत्यम्
भूयस् || अव्य० भुवे भावाय यस्यति यस—भावे क्विप् । पुनरर्थे
वाचस्पत्यम्
भूयस् || त्रि० अतिशयेन बहुः ईयसुन् । “वहोर्लोपो भूश्चबहोः” ईलोपः भूरादेशश्च । बहुतरे मेदि० स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
भूयः || [स्] व्य, (भुवे भावाय यस्यति यतते इति । भू + यस् + क्विप् ।)
पुनरर्थम् । इति शब्दरत्नावली ॥ (यथा, विष्णुपुराणे । १ । ४ । २४ । “यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ! । तत् सर्व्वं त्वं नमस्तुभ्यं भूयो भूयो नमो नमः ॥”
शब्दकल्पद्रुमः
भूयान् || [स्] त्रि, (अयमनयोरतिशयेन बहु- रिति बहु + “द्विवचनविभज्योपपदे तरवीय- सुनौ ।” ५ । ३ । ५७ । इति ईयसुन् । “बहो- र्लोपोभू च बहोः ।” ६ । ४ । १५८ । इतीयसुन ई लोपः भूरादेशश्च ।)
बहुतरः । इति मेदिनी । से, ३० ॥ (यथा, मनुसंहितायाम् । २ । १३७ । “पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।”