संस्कृत-शब्दकोशः

भूयुक्ता भूरिगन्धा

भूरि

वाचस्पत्यम्

भूरि ||‍ त्रि० भू—क्रिन् । १ विष्णौ २ शिवे ३ इन्द्रे च मेदि० । ४ स्वर्णे न० शब्दरत्ना० बहु—रि भ्वादेशः ५ प्रचुरे त्रि० अमरः ६ सोमदपुत्रभेदे पु० भा० आ० १८६ अ० । शिवा० अषत्ये अण् । भौर भूरेरपत्ये पुंस्त्री० ।


शब्दकल्पद्रुमः

भूरि || क्ली (भवति भूयते वेति । भू + “अदि- शदिभूशुभिभ्यः क्रिन् ।” उणा० । ४ । ६५ । इति क्रिन् ।)
स्वर्णम् । इत्यमरः । ३ । १ । ६३ ॥


शब्दकल्पद्रुमः

भूरिः || पुं, (भवतीति । भू + “अदिशदिभूशुभिभ्यः ।” उणा० ४ । ६५ । इति क्रिन् ।)
विष्णुः । ब्रह्मा । शिवः । इति मेदिनी । रे, ७३ ॥ वासवः । इति शब्दरत्नावली ॥ (सोमदत्तस्य पुत्रभेदः । यथा, महाभारते । १ । १८७ । १४ । “कौरव्यः सोमदत्तश्च पुत्त्राश्चास्य महारथाः । समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ॥”)
प्रचुरे, त्रि । इत्यमरः । ३ । १ । ६३ ॥ (यथा, ऋग्वेदे । ७ । ४ । २ । “संयोवनायुवते शुचिदन्भूरि चिदन्नासमिदत्ति सद्यः ॥”)



Correction: