वाचस्पत्यम्
भूर्ज || पु० ऊर्ज—अच् ७ त० । स्वनामख्याते वल्कप्रधाने वृक्षे । “भूर्जत्वचः स्पर्शवतीर्दधानाः” कुमा० । “भूर्जः कटुः कषायोष्णः भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यः दुष्टकौटिल्यनाशनः” राजनि० । “कर्णरोगपित्तकफ मेदोविषहरश्च सः” भावप्र० ।
शब्दकल्पद्रुमः
भूर्जः || पुं, (ऊर्ज + घञ् । भूः ऊर्जो बलं यस्य । भुवि ऊर्ज्जयते इति भू + ऊर्ज + अच् वा ।)
स्वनामख्यातवृक्षविशेषः । भोजपत्र इति हिन्दी- भाषा । (यथा, रघौ । ४ । ७३ । “भूर्जेषु मर्म्मरीभूताः कीचकध्वनिहेतवः ।”)
तत्प्रर्य्यायः । वल्कद्रुमः २ भुर्जः ३ सुचर्म्मा ४ भूर्जपत्रकः ५ चित्रत्वक् ६ बिन्दुपत्रः ७ रक्षा- पत्रः ८ विचित्रकः ९ भूतघ्नः १० मृदुमत्रः ११ शैलेन्द्रस्थः १२ । इति राजनिर्घण्टः ॥ भूर्ज- पत्रः १३ चर्म्मी १४ बहुलवल्कलः १५ । इति भावप्रकाशः ॥ छत्रपत्रः १६ शिवः १७ स्थिर- च्छदः १८ । इति रत्नमाला ॥ मृदुत्वक् १९ इत्यमरः । २ । ४ । ४६ । पत्रपुष्पकः २० । इति भरतधृतमधुः ॥ भुजः २१ बहुपटः २२ बहु- त्वक्कः २३ मृदुत्वचः २४ । इति भरतधृत- स्वामी ॥ अस्य गुणाः । बलकारित्वम् । कफ- रक्तनाशित्वञ्च । इति राजवल्लभः ॥ कटत्वम् । कषायत्वम् । उष्णत्वम् । भूतरक्षाकरत्वम् । त्रिदोषशमनत्वम् । पथ्यत्वम् । दुष्टकौटिल्य- नाशित्वञ्च । इति राजनिर्घण्टः ॥ कर्णरोग- पित्तराक्षसमेदविषहरत्वञ्च । इति भावप्रकाशः ॥ (यथा, वाभटे शरीरस्थाने प्रथमेऽध्याये ॥ “भूर्जलाङ्गलिकीतुम्बीसर्पत्वक्कुष्ठसर्षपैः । पृथक् द्वाभ्यां समस्तैर्वा योनिलेपनधूपनम् ॥”)