संस्कृत-शब्दकोशः

भूर्णि भूलग्ना

भूर्लोक

वाचस्पत्यम्

भूर्लोक ||‍ पु० कर्म० । वादसञ्चारयोग्यस्थानरूपे लोके ।


शब्दकल्पद्रुमः

भूर्लोकः || पुं, (भूःसंज्ञको लोकः । शाकपार्थिवादि- वत् समासः ।)
अन्तरीक्षादधो लोकः । मर्त्य- लोकः । तस्य लक्षणं यथा, —
“पादगम्यञ्च यत्किञ्चित् वस्त्वस्ति पृथिवीमयम् । स भूर्लोकः समाख्यातो विस्तारोऽस्य मयो- दितः ॥” इति विष्णुपुराणे । २ अंशे ५ अध्यायः ॥ चरणसञ्चारयोग्यं गिरिशिखरादि यावत् ताव- दुत्सेधो भूर्लोक इत्यर्थः । विस्तारो मयोदितः सर्व्वतो लोकालोकावधिः पञ्चविंशतिकोटि- प्रमाणः । इति तट्टीकायां स्वामी ॥ अस्य विव- रणं तत्रैव द्वितीयादिचतुर्थाध्यायेषु भूगोल- शब्दे च द्रष्टव्यम् ॥ (यथा, भागवते । २ । ५ । ३८ । भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ॥”)



Correction: