वाचस्पत्यम्
भूस्तृण || न० भुवस्तृणम् पृषो० सुट् । भूतृणे चात्राके अमरः “गुह्यवीजञ्च भूतीकं सुगन्धं गोमयप्रियम् । भूस्तृण- न्तु भवेच्छत्रा माला तृणकमित्यपि । भूस्तृणं कटुकं तिक्तं तीक्ष्णोष्णं रोचनं लघु । विदाहि दीपनं रूक्ष- मनेत्र्यं मुखशोधनम् । अवृष्यं बहुविट्कञ्च पित्त- रक्तपदूषणम्” भावप्र० ।
शब्दकल्पद्रुमः
भूस्तृणं || क्ली (भूलग्नं तृणं भुवस्तृणमिति वा । पारस्करादित्वात् सुट् ।)
भूतृणम् । इत्यमरः । २ । ५ । १६७ ॥ (यथा, मनौ । ६ । १४ ॥ “वर्जयेन्मधुमांसञ्च भौमानि कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च ॥”)
अस्य पर्य्यायगुणा यथा, —
“गुह्यवीजञ्च भूतीकं सुगन्धं गोमयप्रियम् । भूस्तृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥ भूस्तृणं कटुकं तिक्तं तीक्ष्णोष्णं रोचनं लघु । विदाहि दीपनं रूक्षमनेत्र्यं मुखशोधनम् । अवृष्यं बहुविट्कञ्च पित्तरक्तप्रदूषणम् ॥” इति भावप्रकाशः ॥