वाचस्पत्यम्
भृगुपति || पु० भृगूणां भार्गववंशस्य पतिः । परशुरामे शब्दमा० तेषां हैहयपतितो हि तेन रक्षा कृता इति तस्य तथात्वम्
शब्दकल्पद्रुमः
भृगुपतिः || पुं, (भृगूनां तद्वंशीयानां पतिः ।)
परशुरामः । इति शब्दरत्नावली ॥ (यथा, गीतगोविन्दे । १ । १० । “केशवधृत भृगुपतिरूप ! जय जगदीश ! हरे ! । तथा च मेघदूते । १ । ५९ । “हंसद्वारं भृगुपतियशो वर्त्म यत् क्रौञ्च- रन्ध्रम् ।”)