संस्कृत-शब्दकोशः

भृङ्गरजस् भृङ्गराजाद्य

भृङ्गराज

वाचस्पत्यम्

भृङ्गराज ||‍ पु० भृङ्गान् रजयति रन्ज—णिच्—अण् नि० ६ त० । (केशुरिया) । १ क्षुपभेदे । “भृङ्गराजः लटु- स्तिक्तो रूक्षोष्णः कफवातनुत् । केश्यस्त्वच्यः कृमिश्वास- कासशोथामयापहृत् । दन्त्यो रसायनी बल्यः कण्ठनेत्र- क शिरोर्त्तिजित्” भावप्र० २ पक्षिभेदे ६ त० टच् । ३ भ्रमर- श्वेष्ठे मेदि० ४ यक्षभेदे च धरणिः ।


शब्दकल्पद्रुमः

भृङ्गराजः || पुं, (भृङ्गैव राजते इति । भृङ्ग + राज् + अच् । द्रव्यद्वारेण भृङ्गवत् केशकृर्ष्णीकरणा- त्तथात्वम् ।)
क्षुपविशेषः । केसुरिया इति वङ्ग- भाषा । भेगरिया इति हिन्दीभाषा । तत्- पर्य्यायः । केशराजः २ भृङ्गः ३ पत्तङ्गः ४ मार्करः ५ । इति रत्नमाला ॥ भृङ्गाह्वः ६ केश- रञ्जनः ७ पितृप्रियः ८ अङ्गारकः ९ केश्यः १० कुन्तलवर्द्धनः ११ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । चक्षुष्यत्वम् । केशरञ्जनत्वम् । कफा- मशोफश्वित्रनाशित्वम् । तत्र नीलो रसायनः । इति राजनिर्घण्टः ॥ अपि च । “भृङ्गराजो भङ्गरजः मार्करो भृङ्ग एव च । भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥ भृङ्गराजः कटुस्तिक्तो रूक्षोष्णः कफवातनुत् । केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् ॥ दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्त्ति- जित् ॥” इति भावप्रकाशः ॥ पक्षिविशेषः । (यथा, महाभारते । ३ । १०८ । ७ । शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः । भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥”)
भ्रमरः । इति मेदिनी । जे, ३४ ॥ यज्ञभेदः । इति धरणिः ॥



Correction: