शब्दकल्पद्रुमः
भृङ्गाह्वः || पुं, (भृङ्गमाह्वयते स्पर्द्धते इति । आ + ह्वे + कः ।) जीवकः । भृङ्गराजः । इति राज- निर्घण्टः ॥ (विवृतिरस्य जीवकभृङ्गराजशब्द- योर्ज्ञातव्या ॥