संस्कृत-शब्दकोशः

भृङ्गिणी भृङ्गी

भृङ्गिन्

वाचस्पत्यम्

भृङ्गिन् ||‍ पु० भृङ्गस्तद्वर्णः कृष्णत्वादस्त्यस्य इनि । १ वटवृक्षे राजनि० २ शिवानुचरभेदे । तस्य शिवतेजो जातत्वेऽपि कृष्णत्वात् तद्धामता यथोक्तं कालिकापु० ४५ अ० यथा “अग्नावुत्सृज्यमानस्य तजसः शशभृद्भृतः । अणुद्वत- मतिस्वल्पं गिरिप्रस्थे पपात ह । तयोः कारणयोः बद्यः सम्भूतौ शङ्करात्मजौ । एको भृङ्गलमः कृष्णो भिन्नाञ्जननिभोऽपरः । भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरोत् । महाकृष्णैकरूपस्य महाकालेति लोकभृक्” । वामनपु० तु अन्धकासुरस्यैव शिववरेण भृङ्गि- रूपत्व गणाधिपत्यञ्च जातमित्युक्तम् ।


शब्दकल्पद्रुमः

भृङ्गी || [न्] पुं, (भृङ्गः भृङ्गवद्वर्णोऽस्यास्तीति । इनिः ।)
वटवृक्षः । इति राजनिर्घण्टः ॥ शिव- द्वारपालविशेषः । तत्पर्य्यायः । भृङ्गेरिटिः २ भृङ्गरीटः ३ शलः ४ नाडीदेहः ५ अस्थिविग्रहः ६ । इति त्रिकाण्डशेषः ॥ भृङ्गरिटिः ७ । इति भूरिप्रयोगः ॥ तस्य जन्मकारणं यथा, — ईश्वर उवाच । “रतिमात्रेण नोमायां मत्पुत्त्रः संभविष्यति । महामैथुनसंत्यागात् स्यादपुत्त्री च पार्व्वती ॥ तस्मादहन्तु देवानां वचनाद्ब्रह्मणस्तथा । त्यक्ष्ये महामैथुनन्तु किन्त्वेकं करुतामराः ! ॥ येन मे सुमहत्तेजो महामैथुनकारणम् । धार्य्यं तेजस्विनं देवमानयन्त्वमरास्तु तम् ॥ यो निष्कम्पो निर्व्विकारो भूत्वा तेजो ग्रही- ष्यति । तन्मे वदन्तु त्रिदशास्त्यक्ष्ये तेजः शरीरजम् ॥” श्रीऔर्व्व उवाच । “वृषध्वजवचः श्रुत्वा देवा ब्रह्मपुरोगमाः । हरतेजोग्रहायाथ वीतिहोत्रं ययुर्ह्रिया ॥ अथ ब्रह्माणमामन्त्र्य तथानुज्ञाप्य पावकम् । सेन्द्रा देवगणाः सर्व्वे हरमूचुरिदं वचः ॥” श्रीदेवा ऊचुः । “एष वैश्वानरः श्रीमान् भूरितेजोमयो बली । महामैथुनबीजन्तु त्वत्तेजः संग्रहीष्यति ॥ इत्युक्त्वा त्रिदशाः सर्व्वे बीतिहोत्रं पुरःस्थितम् । तस्मै निदेशयामासुः शम्भवे सर्व्वहेतवे ॥ ततः षडङ्गं स्वं रेतो व्यादिते दहनानने । उसत्सर्ज महाबाहुर्महामैथुनकारणम् ॥ अग्नावुत्सृज्यमानस्य तेजसः शशभृद्भृतः । अणुद्वयमतिस्वल्पं गिरिप्रस्थे पपात ह ॥ तयोः कारणयोः सद्यः सम्भूतौ शङ्करात्मजौ । एको भृङ्गसमः कृष्णो भिन्नाञ्जननिभोऽपरः ॥ भृङ्गी तस्य तदा ब्रह्मा नाम भृङ्गीति चाकरीत् । महाकृष्णैकरूपस्य महाकालेति लोकभृत् ॥ ततस्तौ लालयामास शङ्करः प्रमथोत्करैः । अपर्णया चापि तथा क्रमात्तावभिवर्द्धितौ ॥ प्रवृद्धौ तौ महात्मनौ हरोमाप्रतिपालितौ । क्रमाद्गणेशौ कृत्वा तौ हरो द्वारि न्ययोजयत् ॥” इति कालिकापुराणे ४५ अध्यायः ॥ तस्य वानरमुखत्वकारणं तच्छापेन हरपार्व्व त्योश्चापिमनुष्यजन्मग्रहणं यथा, —
“यदा सा नर्म्मणे याता गौरी स्मरहरा- न्तिकम् । तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ । नर्म्मावसाने सा देवी मुक्तधम्मिल्लबन्धना । निःसृता रतिसङ्केतशालाया जलजानना ॥ तां निःसरन्तीं सहसा तथाभूतामनिन्दिताम् । अयोग्यां वीक्षितुं चान्यैर्वृषध्वजमृते प्रियम् ॥ ददर्शतुर्महात्मानौ नातिहृष्टात्ममानसौ । भृङ्गी चापि महाकालः प्राप्तकालश्च कोपतः ॥ दृष्ट्वा तौ मातरं दीनौ तदा भूतावधोमुखौ । चिन्ताञ्च जग्मतुस्तीव्रां निशश्वसतुरुत्तमम् ॥ तौ पश्यन्तौ तदा देवी ददर्श हिमवत्सुता । चुकोप च तदापर्णा वाक्यञ्चैतदुवाच ह ॥ एवम्भूतान्तु मां कस्मादसम्बद्धामपश्यताम् । भवन्तौ तनयौ शुद्धौ ह्रीमर्य्यादाविवर्जितौ ॥ तस्मादिमाममर्य्यादां भवन्तौ निरपत्रपौ । अकुर्व्वतां ततो भूयाद्भवतोर्जन्म मानुषे ॥ मानुषीं योनिमासाद्य ममावेक्षणदोषतः । भविष्यतो भवन्तौ तु शाखामृगमुखौ भुवि ॥ तौ प्राप्तदुःखौ तु तदा विमनस्कौ हरात्मजौ । शापं तस्या न सेहाते प्रोचतुश्चेदमद्रिजाम् ॥ नियोजितौ यथा द्वारि महेशेन त्वया सह । तथा नियोगं कुर्व्वन्तौ तिष्टावो द्बारि संयतौ । हठान्निःसरणं गेहात्तवैव न हि युज्यते ॥ तस्मात्तत्र प्रतीकारं शृणु मातरनिन्दिते ! । त्वं मानुषी क्षितौ भूया हरो भवतु मानुषः ॥ मानुषस्य हरस्यावां जायायां हरतेजसा । भवत्याञ्चापि मानुष्या भविष्यावस्तथोदरे ॥ अथ काले व्यतीते तु सर्व्वज्ञो वृषभध्वजः । तद्भावि कर्म्म ज्ञात्वैव मानुषो ह्यभवत् स्वयम् ॥ ब्रह्मणो दक्षिणाङ्गुष्ठाद्दक्षो ब्रह्मसुतोऽभवत् । अदितिस्तत्सुता जाता ततः पूषाह्वयोऽभवत् ॥ पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः । यस्य तुल्यो नृपो भूमौ न भूतो न भविष्यति ॥ स पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः । शेषे वयसि संप्राप्ते भार्य्याभिस्तिसृभिः सह ॥ पौष्यः परमया भक्त्या ब्रह्माणं पर्य्यतोषयत् । तस्य प्रसन्नो भगवान् ब्रह्मा लोकपितामहः ॥ ब्रह्मोवाच । शृणु पौष्य ! यथा भावी पुत्त्रस्तव कुलोद्बहः । तदहं ते वदिष्यामि भार्य्याभिस्तत् समाचर ॥ इदं फलं गृहाण त्वं मया दत्तं नृपोत्तम ! । अजीर्णं बहुले काले प्राप्तेऽपि सुरसं सदा ॥ फलमेतत् समादाय यावत् संवत्सरद्वयम् । आराधय महादेवं सुप्रसन्नो भविष्यति ॥ यथा संभाषते भर्गः फलमेतत्तथा भवान् । करिष्यंति फलं राजन् ! भार्य्याभिस्तिसृभिः सह ॥ इत्युक्त्वा प्रययौ ब्रह्मा राजापि सह भीरुभिः । हरं यष्टुं समारेभे भक्त्या परमया युतः ॥ स तु वर्षद्वयेऽतीते महादेवो जगत्पतिः । पौष्यस्य नृपतेः सम्यक् प्रससादार्थसिद्धये ॥ ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः । ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाच ह ॥ ईश्वर उवाच । इदं फलं ब्रह्मदत्तं विभज्य नृपते ! त्रिधा । भोजयेस्ताः स्वजायास्त्वं प्रहृष्टः सुस्थमानसः ॥ एकस्या जठरे शीर्षं भार्य्यायास्ते भविष्यति । अपरस्यास्तथा कुक्षौ मध्यभागो भविष्यति । अधो नाभ्यास्तु यो भागः सोऽपरस्यां भविष्यति ॥ ततः खण्डत्रयं भूप ! यथास्थानं पृथक् पृथक् । योजयिष्यति पश्चात्ते पुत्त्र एको भविष्यति ॥ ततः फले स्वयं देवः प्रविवेश वृषध्वजः । तत्क्षणात् तत् फलं भूतं त्रिभागं स्वयमेव हि । ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् ॥ तत् फलं नृपशार्द्दूल ! गर्भाश्चाप्याहिताः शुभाः । सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत ॥ खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् । तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य च ॥ एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत । तस्य शीर्षे तदा राजन् ! सहजेन्दुकला शुभा ॥ तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः । चन्द्रशेखर इत्येवं कान्त्या चन्द्रसमप्रभः ॥ एवं तिसॄणामम्बानां गर्भे जातो यतो हरः । अतस्त्र्यम्बकनामाभूत् प्रथितो देवलोकयोः ॥” इति कालिकापुराणे ४६ अध्यायः ॥ “अवतीर्णे महादेवे पौष्यजायासु स्वेच्छया । मानुषेण प्रमाणेन तेन सम्बत्सरद्बये । गिरिजापि ककुत्स्थस्य राज्ञो भार्य्यास्वजायत ॥” “इक्ष्वाकुवंशजो राजा ककुत्स्थो नाम धार्म्मिकः । तस्य भार्य्या महाभागा भर्गदेवस्य पुत्त्रिका ॥ सा मनोन्मथिनी नाम्ना पूजिता पतिबल्लभा । पुत्त्री न विद्यते तस्यास्तदर्थं सा गृहान्तरे । निभृतं स्थण्डिलं कुत्वा चण्डिकां समपूजयत् ॥ पूज्यमाना महादेवी चण्डिका राजभार्य्यया । पार्व्वत्यपि स्वयं तस्या गर्भे काले विवेश ह ॥ सा मनोन्मथिनी देवी सुषुवे तनयां शुभाम् । तां दृष्ट्वा हारसंयुक्तां शरज्ज्योत्स्नोपमां शुभाम् ॥ ककुत्स्थो भार्य्यया सार्द्धमत्यन्तमुदितोऽभवत् ॥ तेनैव हारचिह्नेन तस्यां तारावतीति वै । नाम्नाकरोत् पिता काले यथोक्ते नृपसत्तम ! ॥ तस्यास्तु यौवनोद्भेदं दृष्ट्वा राजा सुतैः सह । ककुत्स्थः कारयामास समयेऽथ स्वयम्बरम् । स्वयं सा पार्व्वती देवी वव्रे च चन्द्रशेखरम् ॥ इति स्वयं महादेवो मानुषीं योनिमाश्रितः । पार्व्वती च स्वयं जाता नरयोनावनिन्दिता ॥ यथा भृङ्गी महाकाल एतयोरभवत् सुतः । तथा त्वं शृणु राजेन्द्र ! कथयामि समुद्भवम् ॥ अथोमया समं देवो वियता चन्द्रशेखरः । आजगाम तदा गच्छन् प्रासादं प्रतितं नृप ! ॥ ददृशेऽथ चरन्तीं तामुमायाः सदृशीं गुणैः । सर्व्वलक्षणसम्पूर्णां माधवस्येव माधवीम् ॥ तां दृष्ट्वा न्यगदद्देवीं गौरीं वृषभकेतनः । इयं ते मानुषी मूर्त्तिः प्रिये ! तारावतोति या ॥ भृङ्गी महाकालयोस्ते जन्मने विहिता स्वयम् । त्वत्तो ह्यनन्यकान्तोऽहं नान्यां गन्तुमिहोत्- सहे ॥ त्वमिदानीं स्वयञ्चास्यां मूर्त्त्यां प्रविश भाविनि ! । तत उत्पादयिष्यामि महाकालञ्च भृङ्गिणम् ॥ श्रीदेव्युवाच । ममैव मानुषी मूर्त्तिरियं बृषभकेतन ! । विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥ प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥ ततः सापर्णयाविष्टा देवी तारावती सती । कामयानं महादेवं स्वयमेवाभवन्मुदा ॥ कामावसाने तस्यान्तु सद्योजातं सुतद्वयम् । अभवन् नृपशार्द्दूल ! तथा शाखामृगाननम् ॥ ततस्तयोर्नाम चक्रे नारदो वचनान् नृप ! । ज्येष्ठो भैरवनामाभूत् भीरोः पुत्त्रो भयङ्करः ॥ वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः । इति चक्रे तयोर्नाम देवर्षिर्ब्रह्मणः सुतः ॥ अन्यांश्च सर्व्वसंस्कारान्नारदो मुनिसत्तमः । चकार क्रमशो वाक्याच्चन्द्रशेखरभूभृतः ॥” इति कालिकापुराणे ४७ । ४८ । ४९ अध्यायेभ्यः संकलितम् ॥ तस्य जन्मनः प्रकारान्तरं यथा, वेण उवाच । प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् । महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ अथैनमब्रवीद्देवस्त्रैलोक्याधिपतिर्भवः । आश्वासनकरञ्चास्य वाक्यविद्वाक्यमुत्तमम् ॥ अहो तुष्टोऽस्मि ते राजन् ! स्तवेनानेन सुव्रत ! । बहुनात्र किमुक्तेन मत्समीपे वसिष्यसि ॥ उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः । असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत् ॥ हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि । पूर्ब्बाधर्म्मेण घोरेण वेदनिन्दाकृतेन च ॥ साभिलाषो जगन्मातुर्भविष्यसि यदा तदा । देहं शूलेन हत्वा ते पातयिष्यामि साध्विमम् ॥ तत्राप्यकल्मषो भूतः स्तुत्वा मां भक्तितः पुनः । प्राप्त्वा गणाधिपत्यं त्वं नाम्ना भृङ्गिरिति स्मृतः । मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि ॥” ततः कालान्तरे अन्धककृतस्तवानन्तरं महा- देववाक्यम् यथा, —
“सिद्धोऽसि दानवपते ! परितुष्टोऽस्मि तेऽन्धक ! । वरं वरय भद्रं ते यमिच्छसि विनाम्बिकाम् ॥ अन्धक उवाच । अम्बिका जननी मह्यं भगबांस्त्र्यम्बकः पिता । बन्दामि चरणौ मातुर्बन्दनीया ममाम्बिका ॥ वरदोऽसि यदीशान ! तद्यातु विलयं मम । शारीरं मानसं वाग्जं दुष्कृतं दुर्विचिन्तितम् ॥ तथा मे दानवो भावो ह्यपयातु महेश्वर ! । स्थिरा स्यात्तव भक्तिस्तु वरमेतं प्रयच्छ मे ॥ महेश्वर उवाच । एवं भवतु दैत्येन्द्र ! पापं ते यातु संक्षयम् । मुक्तोऽसि दैत्यभावाच्च भृङ्गी गणपतिर्भव ॥ इत्येवमुक्त्वा वरदः शूलाग्रादवतार्य्य तम् । निर्म्माज्य निजहस्तेन चक्रे निर्व्रणमन्धकम् ॥ ततः स्वदेहतो देवान् ब्रह्मादीनाजुहाव सः । ते निश्चेरुर्महात्मानो नमस्यन्तस्त्रिलोचनम् ॥ गणान् स नन्दी चाहूय सन्निवेश्य तदग्रतः । भृङ्गिणं दर्शयामास ब्रुवन्नेषोऽन्धकेति हि ॥ ते दृष्ट्वा दानवपतिं संशुष्कपिशितं रिपुम् । गणाधिपत्यमापन्नं प्रशशंसुर्वृषध्वजम् ॥” इति वामनपुराणे । ४४ । ४५ । ६७ अध्यायेभ्यः सङ्कलितम् ॥



Correction: