शब्दकल्पद्रुमः
भृञ || भृतिपुष्ट्योः । इति कविकल्प- द्रुमः ॥ (भ्वा०-उभ०-सक०- अनिट् । लि-ह्वा०-उभ०-सक०-अनिट् ।)
भृति- र्भरणं पुष्टिः पोषणम् । लि ञ “बिभर्त्ति शशिनं शम्भुर्बिभृते जनकः सुतम् । टु भरथुः । ङु भृत्रिमम् । भ्वादिपक्षे भृतिः पूरणम् । ञ भरति कुम्भमद्भिर्जनः । भरते । इति दुर्गादासः ॥