संस्कृत-शब्दकोशः

भृत भृति

भृतक

वाचस्पत्यम्

भृतक ||‍ त्रि० भृतं भरणं वेतनमुपजीवति कन् । वेतनोष- जीविनि अमरः “भृतकाध्यापको यस्तु नृतकाध्यापित- स्तथा” मनुः । भृतकभेदाः शुक्रनीतिसारे ४ स्य० उक्ता यथा “दश प्रोक्ताः पुरोधाद्या ब्राह्मणाः सर्व एव ते । अभावे क्षत्रिया योज्यास्तदभावे तथोरुजाः । नैव शूद्रास्तु संयोज्या गुणवन्तोऽपि पार्थिवैः । भागग्राही अत्रियस्तु साहसाधियतिश्च सः । ग्रामपो ब्राह्मणो योज्यः का- यस्थो लेखकस्तथा । शुक्लग्राही तृ वैश्यो हि प्रति- प्रतिहारश्च पादजः । सेनाधिपः क्षत्रियस्तु ब्राह्मण- स्तदभावतः । न वैश्यो न च वै शूद्रः कातरश्च कदा- चन । सेनापतिः शूर एव योज्यः सर्वासु जातिषु । भसङ्करचर्तुर्वर्णधर्मोऽयं चैव पावनः । यस्य वर्णस्य यो राजा स वर्णः सुखमेधते । नोपकृतं मन्यते स्य न तुष्यति मुसेवनैः । कथान्तरे न स्मरति शङ्कते प्रलप- त्यपि । क्षुभ्रस्तनोति मर्माणि तं नृपं भृतकस्त्यजेत्”


शब्दकल्पद्रुमः

भृतकः || पुं, (भ्रियते इति । भृ + कर्म्मणि क्तः । ततः स्वार्थे कन् । यद्वा, भृतेन वेतनेन उपजीव- तीति कन् ।)
वेतनोपजीविकर्म्मकर्त्ता । तत्- पर्य्यायः । भृतिभुक् २ कर्म्मकरः ३ वैतनिकः ४ । इत्यमरः । २ । १० । १५ ॥ (यथा, मनौ । ३ । १५६ । “भृतकाध्यापको यश्च भृताध्यापितस्तथा ॥”)



Correction: