वाचस्पत्यम्
भृति || स्त्री भृ—क्तिन् । १ भरणे २ पोपणे च करणे क्तिन् । ३ वेतते अमरः ४ सूल्ये च मेदि० । भृत्यभेदानां भृति- दानप्रकारादिकं शुक्रनीतिसारे उक्तं यथा “कालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम् । भृतिदाने सदा सौरं चान्द्रं कौसीदबुद्धिषु । कल्पवेत् सावनं नित्यं दिनभृत्येऽवधौ सदा । कार्य्यमाना काल- माना कार्य्यकालमितिस्त्रिधा । भृतिरुक्ता तु तद्विज्ञैः सा देया भाषिता यथा । अयं भारस्त्वया तत्र स्थाप्य- स्त्वैतावतीं भृतिम् । दास्यामि कार्य्यमाना सा कीर्तिता तन्निदेशकैः । वत्सरे वत्सरे वापि नासि मासि दिने दिने । एतावतीं भृतं तेऽहं दास्यामीति च कालिकी । एतावता कार्य्यामिदं कालेनापि त्वया कृतम् । भृतिमेता- वतीं दास्ये कार्य्यकालमिता च सा । न कुर्य्याद् भृति- लोपं तु तथा भृतिविलम्बनम् । अवश्यपोष्यभरणा- भृयिर्मध्या प्रकीर्त्तिता । परिपोष्या भृतिः श्रेष्ठा स सा- न्नाच्छादनार्थिका । भवेदेकस्य भरणं यथा सा हीन- संज्ञिका । यथा यथा तु गुणवान् भृतकस्तद्भृतिस्तथा । संयोज्या तु प्रयत्नेन नृपेष्णात्महिताय वै । अवश्य- पोष्यवर्गस्य भरणं भृतकाद्भवेत् । तथा भृतिस्तु सयोज्या तद्योग्या भृतकाय यै । ये भृत्या हीनभृतिकाः शत्रवस्ते स्वयं कृताः । परस्य साधकास्ते तु छिद्रे कोशप्रजा हराः । अन्नाच्छादनमात्रा हि भृतिः शूद्रादिषु स्मृता । तत्पापभागन्थथा स्यात् पोषको मांमभोजिषु । यद् ब्राह्मणेनापहृतं धनं तत् षरलोकदम् । शूद्राय दत्त- मपि यन्नरकायैव केवलम् । मन्दो मध्यस्तथा शीघ्र- स्त्रिविधो भृत्य उच्यते । समा मध्या च श्रेष्ठा च भृतिस्तेषां क्रमात् स्मृता । भृत्यानां गृहकृत्यार्थं दिवा- यामं समुत्सृजेत् । निशि यामत्रयं नित्यं दिनभृत्ये- ऽर्द्धयामकम् । तेभ्यः कार्य्यं कारयीत ह्युत्सवाद्यै- र्विना नृपः । अत्यावश्यं तूतसयेऽपि हित्वा श्राद्ध- दिगं सदा । पादहीनां भृतिं त्वार्त्ते दद्यात् त्रैमा- सिकीं ततः । पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथा तथा । षाण्मासिकीं तु दीर्धार्त्ते तदूर्ध्वं न च कल्पयेत् । नैव पक्षार्द्धमार्तस्य हातव्याल्पापि वै भृतिः । संवत्सरोषितस्यापि ग्राह्यः प्रतिनिधिस्ततः । सुमहद्- गुणिनं त्वार्तं भृत्यर्द्धं कल्पयेद् सदा । सेवां विना नृपः वक्षं दद्याद् भृत्याय वत्सरे । चत्वारिंशत् समानीताः सेवया येन वै नृपे । ततः सेवां विना तस्यै भृत्यर्द्धं कल्पयेत् सदा । यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तद र्द्धकम् । भार्य्यायां वा सुशीलायां कन्यायां वा स्वश्रे- य{??} । अष्टमांशं पारितोष्यं दद्याद् भृत्याय वत्सरे । कार्य्याष्टमांशं वा दद्याद् कार्य्यं द्रानक्षिकं कृतम् । स्मामिकार्य्ये बिनष्टो यस्तत्पुत्रे तद्भृतिं वहेत् । यावद् बालोऽन्यथा पुत्रगुणान् दृष्ट्वा भृतिं बहेत् । षष्ठांशं वा चतुर्थांशं भृतेर्भृत्यस्य पालयेत् । दद्याद् तदर्द्धं भृत्याय द्वित्रिवर्षेऽखिलां तु वा । वाक्पारुष्यान्न्यूनभृत्या स्वामी प्रबलदण्डतः । भृत्यं प्रशिक्षयेन्नत्यं शत्रुत्वं त्वप- मानतः । भृतिदानेन सन्तुष्टा मानेन परिबर्द्धिताः । सात्त्विता मृदुवाचा ये न त्यजन्त्यधिपं हि ते । अधमा- धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा मान- भिच्छन्ति मानो हि महतां धनम् । यथागुणान् स्व- भृत्यांश्च प्रजाः स्वंरञ्जयेन्नृपः । शाखाप्रदानतः कांश्चि दपरान् फलदानतः । अस्यान् सुचक्षुषा हास्यैस्तथा को- मलया गिरा । सुभोजनैः सुवसनैस्ताम्बूलैश्च धेनैरपि । कांश्चित् सुकुशलप्रश्नैरधिकारप्रदानतः । वाहनानां प्रदा- नेन योग्याभरणदानतः । छत्रातपत्रचमरदीपिकानां प्रदानतः । क्षमया प्रणिपातेन मानेनाभिगमेन च । सत्कारेण च दानेन ह्यादरेण समेन च । प्रेम्णा- समीपवासेन स्वार्धासनप्रदानतः । सम्पूर्णासनदानेन स्तुत्योपकारकीर्त्तनात् यत्कार्य्ये विनियुक्ता ये कार्य्या- ङ्कैरङ्कयेच्च तान् । लोहजैस्ताम्रजेरीतिभवैरजतसम्भवैः । सौवर्णै रत्रजैर्वापि यथायोग्यैः स्वलाञ्छनैः । प्रविज्ञा- नाय दूरात् तु वस्त्रैश्च मुकुदैरपि । वाद्यवाहनभेदैश्च भृत्यान् कुर्य्यात् पृथक् पृथक् । स्वविशिष्टं च यच्चिह्नं न दद्यात् कस्यचिन्नृपः” । ४ अ० तत्र विशेष उक्तो यथा “कालं भृत्यवधिं देयं दत्तं भृत्यस्य लेखयेत् । कति दत्तं हि भृत्येभ्यो वेतनं पारि- तोषिकम् । तत्प्राप्तिपत्रं गृह्णीयादृद्याद्वेतनपत्रकम् । सैनिकाः शिक्षिता ये ये तेषु पूर्णा भृतिः स्मृता । व्यूहाम्यासे नियुक्ता ये तेष्वर्द्धां भृतिमावहेत्” “स्व- कार्य्यसाधका ये तु सुभृत्या पोपयेच्च तान् । लोभेना सेवनाद्भिन्नास्तेष्वर्द्धां भृतिमावर्हेत् । शत्रुत्यक्तान् सुगु- खिनः सुभृत्या पालयेन् नृपः । परराष्ट्रे हृते दद्यात् भृतिं मिन्नावधिं तथा । दद्यादर्द्धां तस्य पुत्रे स्त्रियै पादमितां किल । हृतराज्यस्य पुत्रादौ सद्गुणे पाद- सम्मिताम् । दद्याद्वा तद्राज्यतस्तु द्वात्रिंशांशं प्रकल्पयेत्”
शब्दकल्पद्रुमः
भृतिः || स्त्री (भ्रियते अनयेति । भृ + क्तिन् ।)
वेतनम् । इत्यमरः । २ । १० । ३८ ॥ मूल्यम् । भरणम् । इति मेदिनी । ते, ४२ ॥ भृतिर्वेतनं कृतकर्म्मणे दत्तम् । तत्तु सप्तविधदत्तान्तर्गत- दत्तविशेषः । यथा नारदेन च । दत्तं सप्त- विधं प्रोक्तमदत्तं षोडशात्मकमिति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम् । “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥” इति मिताक्षरा ॥