शब्दकल्पद्रुमः
भृत्या || स्त्री (भ्रियतेऽनया भरणमिति वा । भृ + “संज्ञायां समजनिषद्निपतमनविदषुञ् शीङ् भृञिणः ॥” ३ । ३ । ९९ । इति क्यप् । स्त्रियां टाप् ।)
वेतनम् । इत्यमरः । २ । १० । ३८ ॥ (भरणक्रिया । यथा, ऋग्वेदे । १ । ८४ । १६ । “आसन्निषून् हृत्स्वसोमयो भून्य एषां भृत्यामृणधत्स जीवात् ॥”)