संस्कृत-शब्दकोशः

भृम्यश्व भृशम्

भृश

वाचस्पत्यम्

भृश ||‍ अधःपतने दि० पर० अक० सेट् । भृश्यति इरित् अभृशत् अभर्शीत् बभर्श । उदिच्च क्त्वा वेट् ।


वाचस्पत्यम्

भृश ||‍ न० भृश—क । १ अतिशये २ तद्वति त्रि० । ततो भृशादि० च्व्यर्थे भवतौ क्यङ् भृशायते ।


शब्दकल्पद्रुमः

भृश || इर् य उ अधःपते । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-अक०-सेट् ।)
इर् अभृशत् अभर्शीत् । पुषादित्वान्नित्य ङ इत्यन्ये । य भृश्यति भृश्यत्यरिपताकिनीति हलायुधः ॥ उ भर्शित्वा भृष्ट्वा । इति । दुर्गादासः ॥


शब्दकल्पद्रुमः

भृशं || क्ली (भृश्यति प्राचुर्य्येण वर्त्तते इति भृश + कः ।)
अतिशयः । तद्वति, त्रि । इत्यमरः १ । ७० ॥ (यथा, भारवौ । ११ । ४६ । “भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥”



Correction: