संस्कृत-शब्दकोशः

भृशम् भृषद्

भृशादि

वाचस्पत्यम्

भृशादि ||‍ पु० च्व्यर्चे भवतौ क्यङ्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० ग० उक्तो यथा ||‍“भृश शीघ्र चपल मन्द्र पण्डित उत्सुक सुमनस् दुर्मनस् अभिमनस् उन्मनस् रहस् रोहत् रेहत् संश्चेत् तृपत् शश्वत् भ्रमत् वेहत् शुचिस् शुचिवर्चस् अन्तर वर्चस् ओजस् सुरजस् अरजस् एते भृशादयः । आकृति- गणोऽयं तेन श्यामायते इत्यादि सि० कौ० । एवं घूर्णायते “घूर्णायमानेक्षणम्” थूर्णायमानशब्दे दर्शितम्



Correction: