वाचस्पत्यम्
भेकट || पु० भेक इव टलति टल—ड । मत्स्यभेदे द्विरूपकोषः ।
शब्दकल्पद्रुमः
भेकटः || पुं, (भेक इव टलति । भेक + टल + डः ।) मत्स्यभेदः । यथा । तुल्यौ भेकटवेकटौ । इति द्विरूपकोषः ॥