वाचस्पत्यम्
भेकभुज् || पु० भेकं भुङ्क्ते भुज—क्विप् । सर्पे त्रिका० ।
शब्दकल्पद्रुमः
भेकभुक् || [ज्] पुं, (भेकं भुङ्क्ते इति । भुज् + क्विप् । सर्पः । इति त्रिकाण्डशेषः ॥