वाचस्पत्यम्
भेकासन || न० रुद्रयामलोक्ते पूजाङ्गे आसनभेदे तल्लक्षणं यथा “भेकनामासनं योगं निजवक्षसि स्वं मुखम् । निधाय पादयुगलं स्कन्धे बाहौ पदोपरि । ध्यायेदिष्टपदं श्रीमात्र आसनस्थः सुखाच्च तत् । यदि सर्वाङ्गमुत्तोल्य गगने खेचरासनम् । महाभेकासनं प्रोक्तं सर्वसिद्धिप्रदायकम् । महाविद्यामहामन्त्रं पाषोति जपतीह यः” ।