वाचस्पत्यम्
भेकुरि || स्त्री अप्सरोरूपे नक्षत्रे “सुषुम्णः सूर्य्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम” यजु० । १८ । ४० “तस्य चन्द्रमसः नक्षत्राणि नाम अप्सरसः कीदृश्यः भेकु- रयः भां कान्तिं कुर्वन्तीति भेकुरयः पृषोदरादित्वात्साधुः “चन्द्रमाह गन्धर्वो नक्षत्रैरपसरोभिर्मिथुनेन सहोच्चक्राम- भेकुरयो नामेति भेकुरयोह नामैते भां हि नक्षत्राणि कुर्वन्नीति” शत० ब्रा० ९ । ४ । १ । ९ ।