शब्दकल्पद्रुमः
भेडी || स्त्री (भेड + ङीष् ।) भेडभार्य्या । अवी । अस्या दुग्धगुणाः । “आकिकं लवण स्वादु स्निग्धोष्णञ्चाश्मरीप्रणुत् । अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ॥ गुरुकासेऽनिलोद्भूते केवले चानिले वरम् ।” इति भावप्रकाशः ॥