वाचस्पत्यम्
भेदिन् || त्रि० भिद—णिनि । १ भेदकारके स्त्रियां ङीप् । २ अम्लवेतसे पु० राजनि० ।
शब्दकल्पद्रुमः
भेदी || [न्] पुं, (भेत्तुं शीलमस्येति । भिद + णिनिः ।)
अम्लवेतसः । इति राजनिर्घण्टः ॥ (गुणादयो- ऽस्याम्लवेतसशब्दे विज्ञेयाः ॥)
भेदकर्त्तरि तद्विशिष्टे च त्रि ॥ (यथा भागवते । ३ । १५ । ३३ । “व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥”)