वाचस्पत्यम्
भेरि(री) || स्त्री भी—क्रिन् वङ्क्य्रा० नि० वा ङीप् । १ वृहड्ढ- क्कायाम् । २ पटहे “रवः प्रगल्भाहतभेरिसम्भवः” कुमारः उज्ज्वलदत्तः । “ततः शङ्खाश्च भेर्य्यश्च” गीता ।
शब्दकल्पद्रुमः
भेरिः || स्त्री (बिभ्यति शत्रवोऽस्या इति । भी + “वङ्क्र्यादयश्च ।” उणा० । ४ । ६६ । इति क्रिन् । बाहुलकाद् गुणः ।)
बृहड्ढक्का । तत्पर्य्यायः । आनकः २ दुन्दुभिः ३ । इत्यमरः । १ । ७ । ६ ॥ भेरी ४ आनकदुन्दुभिः ५ आनकदुन्दुभी ६ । इति तट्टीकायां भरतः ॥ (यथा, “यतो भेरि- वेणुवीणामृदङ्गतालपटहशङ्खकाहलादिभेदेन शब्दा अनेकविधाः ।” इति पञ्चतन्त्रे प्रथम- तन्त्रम् ॥)