संस्कृत-शब्दकोशः

भेरि भेरीस्वनमहास्वना

भेरी

वाचस्पत्यम्

भेरी is an alternate of भेरि. भेरि(री) ||‍ स्त्री भी—क्रिन् वङ्क्य्रा० नि० वा ङीप् । १ वृहड्ढ- क्कायाम् । २ पटहे “रवः प्रगल्भाहतभेरिसम्भवः” कुमारः उज्ज्वलदत्तः । “ततः शङ्खाश्च भेर्य्यश्च” गीता ।


शब्दकल्पद्रुमः

भेरी || स्त्री (बिभ्यति शत्रवोऽस्या इति । भी + क्रिन् । कृदिकारादिति पक्षे ङीप् ।)
भेरी । इत्यमरटीकायां भरतः ॥ वराह उवाच । “भेरीशब्दमकृत्वा तु यस्तु मां प्रतिबोधयेत् । बधिरो जायते भूमे ! जन्मैकञ्च न संशयः ॥ तस्य वक्ष्यामि सुश्रोणि ! प्रायश्चित्तं मम प्रियम् । किल्विषाद् येन मुच्येत भेरीताडनमोहितः ॥ यस्य कस्यचिन्मासस्य शुक्लपक्षे तु द्वादशीम् । आकाशशयनं कृत्वा शीघ्रं मुच्येत किल्बिषात् ॥ य एतेन विधानेन वसुधे ! कर्म्म कारयेत् । अपराधं न गच्छेत मम लोकाय गच्छति ॥” इति वराहपुराणे भेरीताडनापराधप्राय- श्चित्तम् ॥ (यथा च, मुश्रुते । २ । २७६ । ९ । “एतेन भेर्य्यः पटहाश्च दिग्धा नानद्यमाना विषमाशु हन्युः ॥”)



Correction: