शब्दकल्पद्रुमः
भेरुण्डा || स्त्री (भेरुण्ड + टाप् ।)
देवताविशेषः । यक्षिणीभेदः । इति मेदिनी । डे, ३४ ॥ सा देवता काली । यथा, —
“त्रिकोणनिलया नित्या परमामृतरञ्जिता । महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी ॥” इति कालीकुलसर्व्वस्वे श्रीशिवपरशुरामसंवादे आद्यायाः सहस्रनामस्तोत्रम् ॥