संस्कृत-शब्दकोशः

भेरुण्डा भेलक

भेल

वाचस्पत्यम्

भेल ||‍ त्रि० भी—र रस्य लः । १ पुरे २ भीरुके ३ निर्बुद्धौ ४ मुनि- भेदे विश्वः । ५ चञ्चले शब्दर० । स्वार्थे क । भेलक प्लवे उडुपे (भेला) शब्दर० ।


शब्दकल्पद्रुमः

भेलं || त्रि (भी + “ऋजेन्द्राग्रवज्रेति ।” उणा० २ । २८ । इति रन् रस्य लत्वम् ।)
भीरुः । मूर्खः । इति मेदिनी । ले, ४३ ॥ चञ्चलः । इति शब्द- रत्नावली ॥


शब्दकल्पद्रुमः

भेलः || पुं, (भी + रन् लत्वम् ।)
प्लवः । मुनिविशेषः । इति मेदिनी । ले, ४३ ॥ भेलकम् । इति संक्षिप्तसारोणादिवृत्तिः ॥



Correction: