संस्कृत-शब्दकोशः

भेष भेषजाङ्ग

भेषज

वाचस्पत्यम्

भेषज ||‍ न० भेष—घञ् भेषं रोगभयं जयति जि—ड । १ औषधे । स्वार्थे ष्यञ् । भैषज्य तत्रार्थे भेषजसेवनकालादि भावप्र० उक्तं यथा ||‍“अथ भेषजभक्षणसमयः “भैषज्यमभ्यवहरेत् प्रभाते प्रायशो वुधः । कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः । ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम । किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने । सायन्तने मोजने च मुहुश्चापि तथा निशि । तत्र प्रथमकालः “प्रायः पित्तकफोद्रेके विरेकवमनार्थयोः । लेखनार्थे च भैषज्यं प्रभातेऽनन्नमाहरेत्” । अथ द्वितीयकालः “भैषज्यं विगुणे पाने भोजनाग्रे प्रशस्यते । अरुचौ चित्रभो- ज्यैश्च मित्रं रुचिरमाहरेत् । समानवाते विगुणे मन्देऽग्नावतिदीपनम् । दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक्। व्यानकोपे तु भैषज्यं भोजनान्दे समाहरेत् । हिक्काक्षेपककम्पेषु पूर्वमन्ते च भोजनात्” । अथ तृतीयकालः “उदाने कुपिते वाते स्वरभङ्गादि कारिणि । ग्रासग्रासान्तरे देयं भैषज्यं सान्ध्य- भोजने । प्राणे प्रदुष्टे सान्ध्यस्य भुक्तस्यान्ते प्रदीयते । औषधं प्रायशो धीरैः कालोऽयं स्यात् तृतीयकः” । अथ चतुर्थकालः “मुहुर्मुहुश्च तृट्छर्द्दिहिक्वाश्वास- गरेषु च । सान्नञ्च भेषजं दद्यादिति कालश्चतुर्थकः” । अथ पञ्चमकालः “ऊर्ध्वजत्रुविकारेषु लेखने वृंहणे तथा । पाचने शमने देयमनन्नं भेषजं निशि” इति पञ्चमकालः । निरन्नस्य मेषजस्य गुणमाह “वीर्य्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव । तद्बालवृद्धयुवतीमृदुभिश्च पीतम् ग्लानिं परां नयति चाशु बलक्षयञ्च” । सान्नस्य भेषजस्य गुण- माह “शीध्रं विपाकमुपयाति बलेन हिंस्यादन्नावृतन्न च मुहुर्वदनान्निरेति । एतद्धितं स्थविरबालकृशा- ङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत्” तद्वत् अन्नावृतवत् भेषजमिति शेषः । “औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम् । न करोति गदोपशमं प्रकोपयत्यन्यरो- गांश्च” । पीतमित्युपलक्षणं लीढादिकञ्च । “अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनस्कताः । लघुत्वमिन्द्रियोद्गार- शुद्धिजीर्णौषधाकृतिः । क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छा शिरोरुजः । अरतिर्बलहानिश्च सावशेषौषधाकृतिः” । अथ भेषजभक्षणविधिमाह चरकः “देवान् गुरूंस्तथा विप्रान् पूजयित्वा प्रणम्य च । आशिषश्च समादाय श्रद्धया भेशजं भजेत् । रसायनमिवर्षीणां देवाना- ममृतं यथा । सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते । ब्रह्मदक्षाश्विरुद्रेन्द्रमूचन्द्रार्कानिलानलाः । देवाश्च सौषधिग्रामा भूमिदेवाश्च पःन्तु वः । औषधं हेम रजतमृद्नाजनपरिस्थितम् । पिबेदाप्तजनस्याग्रे प्रसन्नव- दनेक्षणः । विश्रान्तस्तूपविथ्याथ पीत्वा पात्रमधोमुखम् । निःक्षिप्याचम्य सलिलताम्बूलाद्युपयोजयेत् ।” २ जल ३ सुणे च निघण्टुः । ४ विष्णौ पु० “निर्वाणं भेषजं भिषक्” विष्णुस० । तद्भक्षणविहितनक्षत्रादिकं ज्यो० त० उक्तं यथा “विष्णुधर्मोत्तरे । हरिं गोद्विजचन्द्रार्कसुराग्नीन् प्रति- पूज्य च । शृण्वन् मन्त्रमिमं पुण्यं विद्वान् भेषज- मारभेत् । ब्रह्मदक्षाश्विरुद्रेन्द्राभूचन्द्रार्कानिलानलाः । ऋषयश्चौषधिग्रामाभूतसङ्घाश्च पान्तु ते । रसायनमिव- र्षीणां देवानाममृतं यथा । सुधेवोत्तमनागानां भैषज्य- मिदमस्तु ते । स्वय मक्षणे तु ते इत्यत्र मे इति वदेत् । अविशेषेण स्वयंभक्षणेऽपि पठेत् । “द्व्यङ्गोदये गुरुबुधेन्दुसितेषु तेषां वारे रवेश्च सुविधौ सुतिधौ सुयोगे । भेषूग्रपन्नगविशाखशिवेतरेषु जन्मर्क्षविष्टि- रहितेष्वगदः शुभाय” । “औषधकरणं चित्रायुगे विधि- युगे मित्रयुगे लघुषु वारुणविष्णौ । वस्तिविरेचनवेधाः शुभदिनतिथिचन्द्रलग्नेषु” । वस्तिश्चर्मपुटं विरेचनं वि- रेकः । वेधोव्रणादिवेधः । “पौष्णाश्विनीद्रविणशक्रसमेन्द्र- पुष्याहस्तादितीन्दुहरिमूलहुताशमित्रैः, चित्रान्वितैर्भृगु- बुधेन्दुरवीज्यवारे भैषज्यपानमचिरादपहन्ति रोगान् । रत्नमालायाम् द्यूनशत्रुनिधनव्ययशुद्धौ सद्गृहेषु निरतां बलबत्सु । आयुषश्च हित्कारिणि योगे कीर्त्तिता नियतमौषसेवा । द्यूनादिषु पापयोगेक्षण- शून्येषु । आयुष्मानित्यादिशुभयोगे । भीमपराक्रमे, “भैषज्यपाने गुरुसोमशुक्राः शुभं विलग्नं दिवसोरवेश्च । तिथावरिक्ते करणे च शस्ते योगे च लग्ने द्विशरीर संज्ञे” । तत्रैव “रोहिणी चानुराधा च शस्तमौषध- भक्षणे” इति वचनाद्रोहिण्यामपिं । “भैषज्यं सल्लथु मृदुचरे मूलभे द्व्यङ्गलग्ने शुक्रेश्वीज्ये विदि च दिवसे चापि तेषां रवेश्च । शुद्धे रिप्फद्युनमृतिगृहे सत्तिथौ नोजनेभे” मु० चि० । “लघुमृदुचरे अश्विनी पुष्यहस्तचित्रासृगानुराधारेवतीश्रवणधनिष्ठाशततारक- स्वातीपुनर्वसुभेषु मूले च भैषज्यम् ओषधं प्रारब्धं भक्षितं वा सत् शुभफलदं भवतीत्यधः तथाचाह श्रीपतिः “पौष्णद्वये चादितिभद्वये च हस्तत्रये च श्रवणत्रये च । मैत्रे च मूले च मृगे च शस्त भैषज्य- कर्म प्रवदन्ति सन्तः” । वसिष्ठोऽपि “हस्तत्रये चाश्विन- पौष्णभेषु मित्रेन्दुमूलेषु च सूर्य्यवारे । भैषज्यमुक्तं शुभवासरेऽपि” । अथ द्व्यङ्गलग्नें द्विस्वभावराशिषु मिथुनकन्याधनुर्मीनेषु सत्सु शुक्रेन्द्वीज्ये विदि च शुकचन्द्रवृहस्पतिबुधेषु द्विस्वभावलग्नस्थेषु सतसु च पुनस्तेषां शुक्रेन्द्वीज्यबुधानां रवेश्च दिवसे बारे सत्तिथौ रिक्तामारहिते दिने भैषज्यं सत् । उक्तञ्च दीपिकायाम् “द्व्यङ्गोदये गुरुबुधेन्दुसितेषु तेषां वारे रवेश्च सुविधौ सुतिथौ सुयोगे” । अथ रिप्फद्युन- मृतिगृहे लग्नात् द्वादशसप्ताष्टमगृहेषु शुद्धेषु शुभपाप- रहितेषु सत्सु भैषज्यं सत् तत्र वर्षफलप्रश्नादिना सत्यायुर्द्दाययोगे औषधसेवनं हितमित्ययं विशेषो ध्येयः । तदुक्तं श्रीपतिना “द्यूनशत्रु निधनव्ययशुद्धौ सद्ग्रहेषु नितरां बलवत्सु । आयुषश्च हितकारिणि योगे कीर्त्तिता नियतमौषधसेवा” । कश्यपोऽपि “षट्- सप्ताष्टान्त्यशुद्धौ च बलिनः शुभखेचराः । आयुर्दाय करे योगे कर्त्तव्या ह्यौषधक्रियेति” । अथ जनेर्भे जन्म नक्षत्रे नो भैषज्यं सत् तदुक्तं दीपिकायां “जन्मनक्षत्र- गश्चन्द्रः प्रशस्तः सर्बकर्मसु । क्षौरभैमज्यवादाध्वकर्त्त- नेषु च वर्जयेत् ।” पी० धा० ।


शब्दकल्पद्रुमः

भेषजं || क्ली (भिषजोवैद्यस्येदमित्यण् निपा- तनादेत्वम् । यद्वा, भेषं रोगं जयतीति । जि + डः । औषधम् । इत्यमरः । २ । ६ । ५० ॥ (“अस्ति भेषजोजलाषः ।” इति ऋक्संहिता । २ । ३३ । ७ ।)
अथ भेषजभक्षणसमयाः । “भैषज्यमभ्यवहरेत् प्रभाते प्रायशो बुधः । कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः ॥ ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् । किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने । सायन्तने भोजने च मुहुश्चापि तथा निशि ॥” तत्र प्रथमः कालः । ‘प्रायः पित्तकफोद्रेके विरेकवमनार्थयोः । लेखनार्थे च भैषज्यं प्रभाते नान्नमाहरेत् ॥’ अथ द्वितीयः कालः । ‘भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते । अरुचौ चित्रभोज्यैश्च मित्रं रुचिरमाहरेत् ॥ समानवाते विगुणे मन्देऽग्नौ वह्निदीपनम् । दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् ॥ व्यानकोपे तु भैषज्यं भोजनान्ते समाहरेत् । हिक्काक्षेपककम्पेषु पूर्ब्बमन्ते च भोजनात् ॥’ अथ तृतीयः कालः । ‘उदाने कुपिते वाते स्वरभङ्गादिकारिणि । ग्रासग्रासादिकं देयं भैषज्यं साध्यभोजने ॥ प्राणे प्रदुष्टे साध्यस्य भुक्तस्यान्ते प्रदीयते । औषधं प्रायशो धीरैः कालोऽयं स्यात् तृती- यकः ॥’ अथ चतुर्थः कालः । मुहुर्मुहुश्च तृट्छर्द्दिहिक्काश्वासगदेषु च । सान्नञ्च भेषजं दद्यादिति कालचतुर्थकः ॥’ अथ पञ्चमः कालः । ‘ऊर्द्ध्वगन्तु विकारेषु लेखने वृंहणे तथा । पाचने शयने देयमनन्तं भेषजं निशि ॥’ इति पञ्चमः कालः ॥ निरन्नस्य भेषजस्य गुणमाह । ‘वीर्य्याधिकं भवति भेषजमन्नहीनं हन्यात्तदामयमसंशयमाशु चैव ॥ तद्बालवृद्धयुवतीमृदुभिश्च पीतं ग्लानिं परां नयति चाशु बलक्षयञ्च ॥’ सान्नस्य भेषजस्य गुणमाह । ‘शीघ्रं विपाकमुपपत्तिबलंन हिंस्या- दन्नावृतं न च मुहुर्वदनान्निरेति । एतद्धितं स्थविरबालकृशाङ्गनाभ्यः प्राग्भोजनाद्यदशितं किल तच्च तद्वत् ॥’ तद्वत् अन्नावृतवत् भेषजमिति शेषः । ‘औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम् । न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च ॥’ पीतमित्युपलक्षणम् । लीढादि च । ‘अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनः कुतः । लघुत्वमिन्द्रियोद्गारशुद्धिजीर्णौषधाकृतिः ॥ क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छाशिरोरुजः । अरतिर्बलहानिश्च सावशेषौषधाकृतिः ॥’ अथ भेषजभक्षणविधिमाह चरकः । ‘देवान् गुरूंस्तथा विप्रान् पूजयित्वा प्रणम्य च । आशिषश्च समादाय श्रद्धया भेषजं भजेत् ॥ रसायनमिवर्षीणां देवानामिव चामृतम् । सुधैवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः । ऋषयः सौषधिग्रामा भूमिदेवाश्च पान्तु वः ॥’ इत्याद्याशिषः ॥ ‘औषधं हेमरजतमृद्भाजनपरिस्थितम् । पिबेदात्मजनस्याग्रे प्रसन्नवदनेक्षणः ॥ प्रशान्तस्तूपविश्याथ पीत्वा पात्रमधोमुखम् । निःक्षिप्याचम्य सलिलं ताम्बूलाद्युपयोजयेत् ॥’ अथ भेषजानां विधानानि । ‘स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ । ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् ॥’ तत्रादौ स्वरसविधिः । ‘आहतात्तत्क्षणाकृष्टात् द्रव्यात् क्षुण्णात् समु- द्भवे । वस्त्रनिष्पीडितो यश्च स्वरसो रस उच्यते ॥’ अथ कल्कविधिः । ‘द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत् । प्रक्षिप्य गालयेद्वस्त्रे तन्मानं कर्षसम्मितम् ॥ कल्के मधु घृतं तैलं देयं द्विगुणमात्रया । सितां गुडं समं दद्याद्द्रवा देयाश्चतुर्गुणाः ॥’ अथ क्वाथविधिः । ‘पानीयं षोडशगुणं क्षुण्णे द्रव्यपले क्षिपेत् । मृत्पात्रे क्वाथयेद्ग्राह्यमष्टमांशावशेषितम् ॥ कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम् ॥ षोडशिकं षोडशगुणम् ॥ * ॥
अथ हिमविधिः । ‘क्षुण्णं द्रव्यपलं सम्यक् षड्भिर्नीरपलैः प्लुतम् । निशोषितं हिमः स स्यात्तथा शीतकषायकः ॥ अथ फाण्टविधिः । ‘क्षुण्णद्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् । मृत्पात्रे कुडवोन्मानं ततस्तु श्रावयेत् पुटात् ॥ स स्यात् चूर्णद्रवः फाण्टस्तन्मानं द्विपलोन्मितम् । क्षौद्रं सिता गुडादींस्तु कर्षमात्रान् विनिः- क्षिपेत् ॥’ * ॥
अथ तण्डुलजलविधिः । ‘कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत् । भावयित्वा जलं ग्राह्यं देयं सर्व्वत्र कर्म्ममु ॥’ अथ मन्थविधिः । ‘जले चतुष्पले शीते क्षुण्णं द्रव्यपलं क्षिपेत् । मृत्पात्रे मन्थयेत् सम्यक तस्माच्च द्विगुणं पिबेत् ॥’ अथ चूर्णविधिः । ‘अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् । तत् स्याच्चूर्णं रजःक्षोदस्तन्मात्राकर्षसम्मिता ॥ चूर्णे गुडः समो देयः शर्करा द्बिगुणा मता । चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् ॥’ अथ भावनाविधिः । ‘द्रवेण यावता सम्यक् चूर्णं सर्व्वं प्लुतं भवेत् । भावनायाः प्रमाणन्तु चूर्णे प्रोक्तं भिषग्वरैः ॥’ अथ पुटपाकविधिः । ‘पुटपक्वस्य कल्कस्य स्वरसो गृह्यते यतः । अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया ॥ पुटपाकस्य पाकोऽयं लेपस्याङ्गारवर्णता । लेपञ्च द्व्यङ्गुलं स्थूलं कुर्य्याद्वाङ्गुष्ठमात्रकम् ॥ काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् । पलमात्रो रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत् ॥ कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः ॥’ अथोष्णोदकविधिः । ‘अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा । अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् ॥’ अथ क्षीरपाकविधिः । ‘क्षीरमष्टगुणं द्रव्यात् क्षीरान्नीरं चतुर्गुणम् । क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् ॥’ अथावलेहविधिः । ‘क्वाथादेर्यत् पुनः पाकात् घनत्वं सा रसक्रिया । सोऽवलेहश्च लेहश्च तन्मात्रा स्यात् पलो- न्मिता ॥’ अथ वटिकाविधिः । ‘वटिका अथ कथ्यन्ते तन्नामवटिका वटी । मोदको गुटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥ लेहवत् साध्यते वह्नौ गुडो वा शर्कराथवा । गुग्गुलुर्व्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥’ अथ सन्धानविधिः । ‘द्रवेषु चिरकालस्थं द्रव्यं यत् सन्धितं भवेत् । आसवारिष्टभेदैस्तत् प्रोच्यते भेषजोचितम् ॥’ अथ धातूनां शोधनमारणविधिः । तत्र शोधनविधिः । ‘पत्तलीकृत्य पत्राणि हेम्नो वह्नौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥’ * ॥
अथ स्वर्णस्य मारणविधिः । ‘स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्द्दयेत् । तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥ गोलकञ्च ततो रुद्ध्वा सरावदृढसंपुटे । त्रिंशद्वनोपलैर्दद्यात् पुटान्येवं चतुर्द्दश । निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥’ अथ स्नेहपानविधिः । स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च तत् पिवेन्मर्त्यः किञ्चिदभ्युदिते रवौ ॥ अथ पञ्चकर्म्माणि । प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम् । एतानि पञ्च कर्म्माणि निरूहेणोत्तरं तथा ॥ अथ फलवर्त्तिविधिः । घृताभ्यक्ते गुदे क्षिप्त्वा श्लक्ष्णा स्वाङ्गुष्ठसन्निभा । मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता ॥ अथ नस्यग्रहणविधिः । नस्यं तत् कथ्यते धीरैर्नासाग्राह्यं यदौषघम् । लावणं नस्तकर्म्मेति तस्य नाम द्वयं मतम् ॥ अथ धूमपानविधिः । धूमस्तु षड्विधः प्रोक्तः शमनो वृंहणस्तथा । रेचनः कासहा चैव वामनो ब्रणधूपनः ॥ अथ गण्डूषकवलप्रतिसारणविधिः । तत्र गण्डूषः । स्नेहक्षीरकषायादिद्रवैः सम्पूर्णमाननम् । आपूर्य्य स्थीयते तावद्विधिर्गण्डूषधारणे ॥ अथ कवलः । वातपित्तकफघ्नस्य द्रव्यस्य कवलं मुखे । अर्द्धे निःक्षिप्य संचर्व्य निष्ठीवेत् कवले विधिः ॥ अथ प्रतिसारणम् । दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकैः । शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥ अथ स्वेदविधिः । स्वेदश्चतुर्विधः प्रोक्तस्तापोष्णस्वेदसंज्ञितः । उपनाहो द्रवः स्वेदः सर्व्वे वातार्त्तिहारिणः ॥ अथ कर्णपूरणविधिः । स्वेदयेत् कर्णदेशन्तु किञ्चित्तु पार्श्वशायिनः । मूत्रैः स्नेहै रसैरुक्तैः कोष्णैः श्रोत्रं प्रपूरयेत् ॥ कर्णञ्च पूरितं रक्षेच्छतं पञ्चशतानि वा । सहस्रं वापि मात्राणां श्रोत्रकण्ठशिरोगदैः ॥ रसाद्यैः पूरणं कर्णे भोजनात् प्राक् प्रशस्यते । तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ॥ * ॥
अथालेपविधिः । अथालेपस्य नामानि लेपलेपनलिप्तयः । दोषघ्नो विषहा वर्ण्यः स च लेपस्त्रिधा मतः । न रात्रौ लेपनं कुर्य्यात् शुष्यमाणं न धारयेत् ॥ अथ शोणितस्रावणविधिः । शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च । प्रस्थं प्रस्थार्द्धमथवा प्रस्थार्द्धार्द्धमथापि वा ॥ शरत्काले स्वभावेन शोणितं स्रावयेन्नरः । त्वग्दोषग्रन्थिशोथाद्या न स्यू रुधिरपातनात् ॥ अथाश्च्योतनविधिः । क्वाथक्षौद्रासवस्नेहबिन्दूनां यत्तु पातनम् । द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हितम् ॥ अथ विडालकविधिः । विडालको वहिर्लेपो नेत्रे पक्ष्मविवर्ज्जिते । तस्य मात्रा परिज्ञेया मुखालेपविधानवत् ॥ अथ तर्पणविधिः । वातातपरजोहीने वेश्मन्युत्तानशायिनः । आधारौ माषचूर्णेन क्लिन्नेन परिमण्डितौ ॥ समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोषयोः । पूरयेद्घृतमण्डेन विलीनेन सुखोदके ॥ अथाञ्जनविधिः । “अथ सम्यगदोषस्य प्राप्तमञ्जनमाचरेत् । अञ्जनं क्रियते नेत्रे तद्द्रव्यञ्चाञ्जनं मतम् ॥ अथ प्रत्यञ्जनविधिः । गतदोषमपेताश्रु प्रपश्यत् सम्यगम्भसा । प्रक्षाल्याक्षि यथादोषं कार्य्यं प्रत्यञ्जनं ततः ॥ इति भावप्रकाशः ॥ * ॥
अथ भेषजकरणभक्षणदिनम् । तत्र तिथयः विष्टिभिन्नाः शोभनाः । वाराः रविसोमबुध- बृहस्पतिशुक्राणाम् । नक्षत्राणि पूर्ब्बफल्गुनी- पूर्व्वाषाढापूर्व्वभाद्रपन्मघाभरण्यश्लेषाविशाखा- र्द्राभिन्नानि । जन्मर्क्षञ्च निषिद्धम् । “लग्नानि मिथुनकन्याधनुर्मीनसंज्ञकानि । तत्र गुरुबुधचन्द्रशुक्रेषु सत्सु प्रशस्तानि ॥” इति ज्योतिषतत्त्वम् ॥ (करणं पुनर्भेषजम् । भेषजं नाम तत् यदुप- करणाय उपकल्प्यते भिषजो धातुसाम्याभि- निर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायात्तेभ्यः । तद्द्विविधं व्यपाश्रयभेदात् दैवव्यपाश्रयं युक्ति- व्यपाश्रयञ्च । तत्र दैवव्यपाश्रयं मन्त्रौषध- मणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोप- वासस्वस्त्ययनप्रणिपातगमनादि । युक्तिव्यपा- श्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः । एतच्चैव भेषजमङ्गभेदादपि द्विविधं द्रव्यभूत- मद्रव्यभूतञ्च, तत्र यद्द्रव्यभूतं तदुपायाभि- प्लुतम् । उपायो नाम भयदर्शनविस्मापनक्षो- भणहर्षणभर्त्सन वधबन्धस्वप्नसंवाहनादिरमूर्त्तो भावः यथोक्ताः सिद्ध्युपायाश्च । यत्तु द्रव्य- भूतं तद्वमनादिषु योगमुपैति । तस्यापीयं परीक्षा, इदमेवं प्रकृत्या एवंगुणमेवंप्रभाव- मस्मिन् देशे जातमस्मिन् ऋतौ एवं गृहीतमेवं निहितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन् ऋतौ एवंविधस्य पुरुषस्यैतावन्तन्दोषमपकर्ष- यति उपशमयति वा अन्यदपि चैवंविधं भेषजमभूत्तच्चानेनानेन वा विशेषेण युक्तमिति । इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)



Correction: