संस्कृत-शब्दकोशः

भैदिक भैमगव

भैम

वाचस्पत्यम्

भैम ||‍ त्रि० भीमस्य नृपस्येदम् अण् । १ भीमनृपसम्बन्धिनि स्त्रियां ङीप् । सा च २ नलपत्न्यां दमयन्त्याम् । भीमेनोपासिता अण् ङीप् । ३ माघशुक्लैकादश्याम् । एका० त० विष्णुधर्मोत्तरे “मृगशीर्षे शशधरे माघे मासि प्रजायते । एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः । द्वादश्यां षट्तिला- चारं कृत्वा पापात् प्रमुच्यते । तिलस्नायी तिलोद्वत्तीं तिलहोमी तिलोदकी । तिलस्य दाता भोक्ता च षट्- तिली नावसोदति” । मत्स्यपुराणे “यद्यष्टम्यां चतु- र्दश्यां द्वादश्यामथ भारत! । अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् । ततः पुण्यामिमां भीमतिथिं प्रापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छेद्विष्णोः परं पदम् । भीमतिथिं भैमीत्वेन ख्यातामेकादशीम्” रघु०



Correction: