वाचस्पत्यम्
भैषज्य || न० भिषजः कर्म भेषज—स्वार्थे वा ष्यञ् । १ औषपे भिष- जोऽपत्यं गर्गा० यञ् । २ भिषजोऽपत्ये पुंस्त्री० ।
शब्दकल्पद्रुमः
भैषज्यं || क्ली (भेषजमेवेति । भेषज + “अनन्ता- वसथेतिहभेषजाञ् ञ्यः ।” ५ । ४ । २३ । इति ञ्यः ।)
औषधम् । इत्यमरः । २ । ६ । ५० ॥ (अस्य पर्य्यायो यथा, —
“भैषज्यं भेषजञ्चायुर्द्रव्यमगदमौषधम् ॥” इति वैद्यकरत्नमालायाम् ॥ “तदेव युक्तं भैषज्यं यदारोग्याय कल्पते ।” इति चरके सूत्रस्थाने द्वितीयेऽध्याये ॥)