संस्कृत-शब्दकोशः

भोगगृह भोगपाल

भोगदेह

वाचस्पत्यम्

भोगदेह ||‍ पु० भुज्यते सुखदुःखादिकमत्र भुज—आधारे घञ् कर्म० । पुण्यपापफलभोगार्थे देहे “प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते” शु० त० । २ भोगसाधने देहे स च लिङ्गशरीरात्मकः तस्यैव भोगसाधनत्वात् “पञ्चप्राण मनोबुद्धिदशेन्दियसमन्वितम् । अपञ्चीकृतभूतोत्थं सू- क्ष्माङ्गं भोगसाधनम्” वेदान्तिनः । सांख्यमते पञ्चप्राणस्थले पञ्चभूतमात्रा इति भेदः । स्थूलदेहस्य भोगावच्छेदक- त्वात् उपचारात् तथात्वमिति बोध्यम् । तद्विवृतिर्यथा “शृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् । देहिनां देह- वीजञ्च स्रष्टुः सृष्टिविधौ परम् । पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् । स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह । वृद्धाङ्गुष्ठप्रमाणञ्च यो जीवः पुरुषः कृतः । विभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे । स देहो न भवेद्भस्म ज्वलदम्रौ यमालये । जले न नडो देहो वा प्रहारे सुचिरे कृते । न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा । तप्तद्रवे तप्नलोहे तप्तपाषाण एव च । प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वपतनेऽपि च । न च दग्धो न भग्नश्च मुङ्क्ते सन्तापमेव सः” ब्रह्मवै० प्र० २९ अ० ।


शब्दकल्पद्रुमः

भोगदेहः || पुं, (भोगहेतुको भोगसाधको वा देहः ।)
स्वर्गनरकभोगार्थं सूक्ष्मशरीरम् । यथा, —
“कृते सपिण्डीकरणे नरः संवत्सरात् परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥” इति श्राद्धतत्त्वम् ॥ अपि च । “शृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् । देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम् ॥ पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् । स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥ वृद्धाङ्गुष्टप्रमाणश्च यो जीवपुरुषः कृतः । बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे ॥ स देहो न भवेद्भस्म ज्वलदग्नौ यमालये । जले न नष्टो देही वा प्रहारे सुचिरे कृते ॥ न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा । तप्तद्रवे तप्तलोहे तप्तपाषाण एव च ॥ प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि च । न च दग्धो न भग्नश्च भुङ्क्ते सन्तापमेव च । कथितं देहवृत्तान्तकारणञ्च यथागमम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २९ अध्यायः ॥



Correction: